________________
उत्तराध्य. बृहद्वत्तिः
SCROSSA
अध्ययनम्
पूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता ३ स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता ४, ३ । वचनसम्पच्चतुर्भ- दा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ असन्दिग्धवचनता ४, तत्राऽऽदेयवचनता-सकलजनग्राह्यवाक्यता १, मधुरं रसवदू यदर्थतो विशिष्टार्थवत्तयाऽर्थावगाढत्वेन शब्दतश्चापरुषत्वसौखर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुराहादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता २ अनिश्रितवचनता-रागाद्यकलुषितवचनता ३ असन्दिग्धवचनता-परिस्फुटवचनता ४,४। वाचनासम्पचतुर्धा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं २ परिनिर्वाप्य वाचना३ अर्थनिर्यापणेति४, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात् २, परीति-सर्वप्रकारं निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्तालापकादि सर्वात्मना खात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना ३, अर्थः-सूत्राभिधेयं वस्तु तस्य निरिति भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा ४, ५। मतिसम्पत् अवग्रहेहापायधारणारूपा चतुर्की, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न वित्रियन्ते ६। प्रयोगमतिसम्पचतुर्धा-आत्मपुरुषक्षेत्रैवस्तुविज्ञानात्मिका, तत्राऽऽत्मज्ञानं-वादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम
S SASAR
Jain Educat
i onal
For Private & Personal Use Only
lainelibrary.org