Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ACCASCALCCHECCASSASTROLOGER
जनान् खस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादाश्वासद्वीप इति भवति, तथा प्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात् , स चासो दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदवाच्य इति गाथार्थः ॥ २०६ ॥ पुनरनयोरपि । भेदमाहसंदीणमसंदीणो संधिअमस्संधिए अ बोद्धव्वे । आसासपगासे अ भावे दुविहो पुणिक्किको ॥ २०७॥
व्याख्या-संदीयते-जलप्लावनात् क्षयमाप्नोतीति सन्दीनः, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे यत्ति संयोगिमः, यस्तैलवय॑ग्निसंयोगेन निवृत्तः, असंयोगिमश्च तद्विपरीत आदित्यबिम्बादिः,स लेक एव प्रकाशक इति 'ज्ञातव्यः' अवबोद्धव्यः, पठ्यते च-'सन्धियमस्सन्धिए य बोद्धवे' इहापि सन्धितः' संयोजितः, तद्विपरीतस्तु 'असन्धितः' असंयोजितः, 'आसासपगासे य'त्ति आश्वासद्वीपः प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्राश्वासद्वीपः सन्दीनासन्दीनः, प्रकाशदीपश्च संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भावविषयोऽपि, 'दुविह'त्ति द्विधा, 'पुन'रिति प्रथमभेदापेक्षम् , एकैकः' इत्याश्वासद्वीपः प्रकाशदीपश्च, इदमुक्तं भवति
१ वयिमखचिमादयः ( उ० ३५०) इति सूत्रादिमो न्यक्कादेरण्याकृतिगणत्वाद्गत्वं च । २ संधानं संधा सा जाताऽस्येति संधितः ।
Jain Educatie
Dnational
For Private & Personal use only
nelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458