Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 427
________________ जहां केइ धातुवाइया सदीवगा अग्गिं इंधणं च गहाय बिलमणुपविठ्ठा, सो तेसिं पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्झायदीवग्गीया गुहातममोहिया इतो ततो सबतो परिभमंति, परिभमंता अपडियारमहाविसेहिं सप्येहि डका दुरुत्तरे अहे निवडिया, तत्थेव णिहणमुवगया ॥ एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्थानपगगात् , मुह्यते येनासौ मोहो-ज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनन्तमोहः, किमित्याह-'णेयाउयंति निश्चित आयो-लाभो न्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'दटुं' ति अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपि-उपलभ्याप्यदृष्ट्वेव भवति, है तदर्शनफलाभावात् , अथवा 'अदद्रुमेव'त्ति प्राकृतत्वादद्रष्टैव भवति, इदमत्राकूतम्-यथेष गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावे तदद्रष्टैव जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः सम्यग्दर्शनादिकं मुक्तिमार्ग भावप्रकाशदीपतः श्रुतज्ञानात्मकात् दृष्ट्वाऽपि वित्तादिव्यासक्तितस्तदावरणोदयादद्रष्टैव भवति, तथा चन केवलं स्वतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपह १ यथा केचिद्धातुवादिनः सदीपका अग्निमिन्धनं च गृहीत्वा बिलमनुप्रविष्टाः, स तेषां प्रमादेन दीपोऽग्निरपि विध्यातः, ततस्ते विध्यातदीपाग्नयो गुहातमोमोहिता इतस्ततः सर्वतः परिभ्राम्यन्ति, परिभ्राम्यन्तोऽप्रतीकारमहाविषैः सर्दष्टा दुरुत्तरे गर्ने निपतिताः, तत्रैव निधनमुपरानाः । inelibrary.org For Private & Personal Use Only Jain Educatie 12 lational

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458