Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
वृहद्वृत्तिः ॥२१७॥
'परिशङ्कमानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्त्तत, 'जंकिंचि' असंस्कृ त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, तदयमुभयत्राभिप्रायः-यथा भारण्डपक्षी अपरसाधारणान्तर्वर्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिद्दवरकादिकमपि पाशं मन्यमानः तथाऽप्रमत्तश्चरेत् , नन यदि परिशङ्कमानश्चरेत्तर्हि सर्वथा जीवितनिरपेक्षणेव प्रवर्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह-'लाभंतरे'त्यादि वृत्ताई, लम्भनं ४ लाभः-अपूर्वार्थप्राप्तिः अन्तरं-विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ?-यावद्विशिष्टविशिष्टतरसम्यग्ज्ञानदर्शनचारित्रावासिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणात्मकं बृंहयित्वा'अन्नपानोपयोगादिना वृद्धिं नीत्वा, तदभावे प्रायस्तदुपक्रमणसम्भवादित्थमुक्तं, 'खुहा पिवासा य वाही यत्ति वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद , इह च बृंहयित्वेव बृंहयित्वेति व्याख्येयम् , अन्यथाद्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं, ततः किमित्याह- पश्चात् ' लाभविशेषप्राप्त्युत्तरकालं 'परिण्णाय'त्ति सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः,तथा च नातो निर्जरा,न हि जरया व्याधिना वा अभिभूतं तत् तथा- ॥२१५ विधधर्माधानं प्रति समर्थम , उक्तं हि-"जरा जाव ण पीलेति.वाही जाव ण वहति । जाविदिया ण हायति, ताव
१ जरा यावन्न पीडयति व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्म समाचरेत् ॥ १॥
Jain Education
For Private & Personal Use Only

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458