Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोजीवनार्थत्वाच्चास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः॥८॥ ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याशयाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आह स पुत्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं । विसीदति सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥९॥ (सूत्रम्) ___ व्याख्या-'स' इति यत्तदोर्नियाभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मक छन्दोनिरोधं 'पुत्वमेवंति एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात् 'न| लभेत्' न प्राप्नुयात् , सम्भावने लिट् , ततश्च लाभसम्भावनाऽपि न समस्ति, किं पुनस्तल्लाभ इति, 'पश्चात् ' अन्त्यकाले मलापध्वंससमये वा, 'एसोवम'त्ति एषा-अनन्तरमभिहितखरूपा उप-सामीप्येन मीयते-परिच्छिद्यते स्वयंप्रसिद्ध्या अपरमप्रसिद्धं वस्त्वनयेत्युपमा, केषां ?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशियत् । कर्तर्युपमाने (पा-३-२-१९) इति णिनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युमनियतकालभाविनमपश्यताम् , Sain Education ka For Private & Personal use only

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458