Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२२७॥
वचनान्महाप्रमादरूपस्याब्रह्मणो निरोधकृदिति, तदभिधानाद्धिंसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिधानं रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः ॥ ११-१२ ॥ सम्प्रति यदुक्तं- 'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत् अत आहयद्वैतावता चारित्रशुद्धिरुक्ता सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्थमिदमाह -
जे संख्या तुच्छपरप्पवादी, ते पेज्जदोसाणुगया परज्झा ।
एए अहम्मुत्ति दुर्गुछमाणो, कंखे गुणे जाव सरीरभेए ॥ १३ ॥ त्तिबेमि (सूत्रम् )
व्याख्या—'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृतागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि खागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्ख्याश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूपां चै (पावे) व | पुनराविर्भाव तिरोभावावुक्तवन्तो, यथा वा- 'उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानि च । सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः ॥ १ ॥ इतिवचनाद्वचननिषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एव 'तुच्छ'त्ति तुच्छा यदृच्छाभिधायितया निःसाराः 'परप्पवाई' ति परे च ते खतीर्थिकव्यतिरिक्ततया प्रवादिनश्च
Jain Educationational
For Private & Personal Use Only
असंस्कृता.
४
॥२२७॥
jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458