Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ लायेत् नैव वा वदेत्परिहरेद्वा तमिति॥'मंदा येति सूत्रं, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यता नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुच्चये, स्पर्शाः प्राग्वच्छब्दादयः, बहून् लोभयन्ति-विमोहयन्तीति बहु लोभनीयाः 'अन्यत्रापी ( कृत्यल्युटो बहुलम् ) ति वचनात् कर्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति है अपेर्गम्यमानत्वात्तथाप्रकारेष्यतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु 'मनः' चित्तं न कुर्यात् , अथवा धातूना मनेकार्थत्वान्न निवेशयेत् , यद्वा सङ्कल्पात्मकमेव मनः, ततो मन इति सङ्कल्पमपि न कुर्यात्' न विदध्याद् आस्तां तत्प्रवृत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दाः-स्त्रियः ता एव स्पर्शप्रधानत्वात् स्पशोंः, ततश्च म-16 हैन्दाश्च स्पर्शाः, बहूनां कामिना लोभनीयाः-गृद्धिजनका बहुलोभनीयाः यास्तासु 'तहप्पगारेसुत्ति लिङ्गव्यत्ययात्त थाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद् , इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह"स्पर्शेन्द्रियप्रसक्ताश्च, बलवन्तो मदोत्कटा। हस्तिबन्धकिसंरक्ता. बध्यन्ते मत्तवारणाः॥१॥” इति । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीत्यत आह-रक्षयेत्' निवारयेत् , कम् ?-'क्रोधम्' अप्रीतिलक्षणं, 'विनयेत्' अपनयेत् 'मानम् ' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुर्यात् , 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वङ्गखभावं, तथा च क्रोधमानयो₹षात्मकत्वान्मायालोभयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहृतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं, तच 'अवंभचेरं घोरं पमायं दुरहिटगं'ति१ अब्रह्मचर्यं घोरं प्रमादं दुरधिष्ठितम् । Jain Education I tiona For Privale & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458