Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
%
उत्तराध्य.
%
बृहद्धृत्तिः
%
॥२२४॥
%
| इदमिहाकूत-यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्ति सोऽवश्यं शाश्वतवादी, स चैवं प्रज्ञाप्यते-1 असंस्कृता. यथा भद्र ! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, यदि वा एषा उपमेति-उपेत्युषयोगपूर्वक मेति ज्ञानमुपमा-सम्प्रधारणा यदुत पश्चाद्धर्म करिष्यामः इति शाश्वतवादिनां-निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रुदसमानायुषां, तथा चासावुत्तरकालमपि छन्दोनिरोधमनाप्नुवन् 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक्पारं भवाम्भोधिं भ्राम्यन् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा ?-शिथिलयति-आत्मप्रदेशान् मुञ्चति आयुषि' मनुष्यभवोपग्राहिण्यायुःकर्मणि, 'कालोवणीय'त्ति कालेन-मृत्युना खस्थितिक्षयलक्षणेन वा समयेनोपनीतः-उपढौकितः तस्मिन् , क्व ? इत्याह-'शरीरस्य' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटतः पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह-“गमनं किमद्य किं श्वः कदापि वा सर्वथा ध्रुवं क्वापि । इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते ॥१॥” इति सूत्रार्थः ॥९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याह
॥२२४॥ खिप्पं न सकेइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समेच्च लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो ॥१०॥(सूत्रम्)
%%%
%
%A
5
%
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458