________________
आचारसम्पत् १ श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसम्पत् ७ सङ्ग्रहपरिज्ञासम्पत् ८, तथा चाह-"आयरिसुयसरीरे वयणे वायणमतीपतोगमती। एएसु संपया खलु अट्टमिया संगहपरिण्णा ॥१॥' तत्र चाचारसम्पत् चतुर्धा-संयमध्रुवयोगयुक्तता १ असम्प्रग्रहता २ अनियतवृत्तिः ३ वृद्धशीलता चेति ४, तत्र संयमः-चरणं तस्मिन् ध्रुवो-नित्यो योगः-समाधिस्तद्युक्तता, कोऽर्थः १-सन्ततोपयुक्तता संयमभुवयोगयुक्तता १, असम्प्रग्रहः-समन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारणं सम्प्रग्रहस्तदभावोऽसम्प्रग्रहः, जात्याद्यनुत्सिक्ततेत्यर्थः, २, अनियतवृत्तिः-अनियतविहाररूपा ३, वृद्धशीलता-बपुषि मनसि च निभृतखभावता निर्विकारतेतियावत् ४,१॥श्रुतसम्पचतुर्धा-बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोपविशुद्धिकरणता ४ च, तत्र बहुश्रुतता-युगप्रधानागमता १ परिचितसूत्रता-उत्कमक्रमवाचनादिभिः स्थिरसूत्रता २ विचित्रसूत्रता-खपरसमयविविधोत्सर्गापवादादिवेदिता ३ घोषविशुद्धिकरणता-उदात्तानुदात्तादिखरशुद्धिविधायिता ४, २। शरीरसम्पञ्चतुर्धा-आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता च ४, इह चाऽऽरोहो-दैये परिणाहो-विस्तरः ताभ्यां तुल्याभ्यां युक्तताऽऽरोहपरिणाहयुक्तता १ अविद्यमानमवत्राप्यम्-अवत्रपणं लजनं यस्य सोऽयमनवत्राप्यः, यद्वाऽवत्रापयितुं-लज्जयितुमहै. शक्यो वाऽवत्राप्यो-लजनीयः न तथाऽनवत्राप्यस्तद्भावोऽनवत्राप्यता २ उभयत्राहीनसर्वाङ्गत्वं हेतुः, परि
%%*%ARASTRA
SAPNA
JainEducation
For Private & Personal use only
Hainelibrary.org