Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति ?-जीवविषयमजीवविषयं च, तत्राल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-तत्थ जमजीवकरणं'ति तत्र-तयोईयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः ॥ २०१॥ एतदेव स्पष्टयितुमाह
वण्णरसगंधफासें संठाणे चेव होइ नायवं । पंचविहं पंचविहं दुविहऽटविहं च पंचविहं ॥ २०२॥ |
व्याख्या-वर्णरसगन्धस्पर्श संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकर-18 ६णमिति प्रक्रमः, तत्र वर्णः पञ्चविधः-कृष्णादिः, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेदः-सुरभिरितरश्च, स्पर्शोऽष्ट-16
विधः-कर्कशादिः, संस्थानं पञ्चविधं-परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह-'पञ्च-* विध'मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेषः ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च-"अपरप्पओगजं (ओ) जं अजीवरूवादि पजयावत्थं । तमजीवभावकरणं तप्पजाअप्पणावेखं ॥ १ ॥ को दवविस्ससाकरणाउ विसेसो इमस्स ? ननु
१ अपरप्रयोगजं (तो) यदजीवरूपादि पर्यायावस्थम् । तदजीवभावकरणं तत्पर्यायात्मनोऽपेक्षया ॥१॥ को द्रव्यविश्रसाकरणाद्विशेषोऽस्य ?.| ननु भणितम् । इह पर्यायापेक्षया द्रव्यार्थिकनयमतं तच्च ॥ २॥
Jain Education
tional
For Privale & Personal use only
Olainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458