Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्धत्तिः
॥२०२॥
विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् , असंस्कृता. अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाः'कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमि'त्ति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थमुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रियासाधकतमत्वादिति गाथार्थः ॥ १९७ ॥ कानि पुनस्तानीत्याह| बवं च बालवं चेव, कोलवं थीविलोअणं। गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ १९८॥ सउणि चउप्पयं नागं, किंसुग्धं करणं तहा। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ १९९॥
व्याख्या-बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी । शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि, शेषाणि करणानि 'चलानि'अनवस्थितानि सप्तेति श्लोकद्वयार्थः ॥ १९८-१९९ ॥ कस्य पुनः क ध्रुवत्वमित्याह
M२०२॥ किण्हचउद्दसिरत्तिं सउणिं पडिवजए सया करणं। इत्तो अहक्कम खलु चउप्पयं नाग किंछग्धं ॥ २० ॥
१ कालकरणं यद्यावता कालेन क्रियते, यस्मिन्वा काल इति ।
Jain Educatio
n
For Privale & Personal use only
hinelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458