Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 390
________________ उत्तराध्य. बृहद्वृत्तिः ॥१९४॥ अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती' त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनानोऽस्यैवाध्ययनस्यैषा नाम निष्पन्न निक्षेपनिर्युक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ॥ १८२ ॥ सम्प्रति संस्कृत - प्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेसुमाह नियुक्तिकृत् — नामंठवणाकरणं खित्ते काले तहेव भावे य । एसो खलु करणंमी णिक्खेवो छविहो होइ ॥ १८३ ॥ व्याख्या - नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवे 'ति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे य'ति भावश्च, एष एव - अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात् 'करणे' करणविषये 'निक्षेपो' न्यासः षड्विधो भवति, किमुक्तं भवति ? - नामकरणादिभेदेन निक्षिप्यमाणं पड्विधमेव करणं भवतीति गाथार्थः ॥ १८३ ॥ तत्र च नामकरणं समिति नामैव नानो वा करणं नामकरणं प्रियङ्करशुभङ्कराद्यभिधानाधानं, यदिवा नामतः करणं नामकरणं, यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम्-अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत् - "णामं णामस्स व णामतो य करणंति णामकरणंति । ठवणाकरणं नासो करणागारो य जो जस्स ॥ १ ॥" द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति ( कृयल्युटो बहुलम् पा० ३-३-१३३ ) कर्म्मण्यपि १ नाम नाम्नो वा नामतश्च करणमिति नामकरणमिति । स्थापनाकरणं न्यासः करणाकारश्च यो यस्य ॥ १ ॥ Jain Education Bional For Private & Personal Use Only 6 असंस्कृता. ४ ॥ १९४॥ inelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458