________________
उत्तराध्य.
बृहद्वृत्तिः
॥१९४॥
अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती' त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनानोऽस्यैवाध्ययनस्यैषा नाम निष्पन्न निक्षेपनिर्युक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ॥ १८२ ॥ सम्प्रति संस्कृत - प्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेसुमाह नियुक्तिकृत् — नामंठवणाकरणं खित्ते काले तहेव भावे य । एसो खलु करणंमी णिक्खेवो छविहो होइ ॥ १८३ ॥
व्याख्या - नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवे 'ति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे य'ति भावश्च, एष एव - अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात् 'करणे' करणविषये 'निक्षेपो' न्यासः षड्विधो भवति, किमुक्तं भवति ? - नामकरणादिभेदेन निक्षिप्यमाणं पड्विधमेव करणं भवतीति गाथार्थः ॥ १८३ ॥ तत्र च नामकरणं समिति नामैव नानो वा करणं नामकरणं प्रियङ्करशुभङ्कराद्यभिधानाधानं, यदिवा नामतः करणं नामकरणं, यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम्-अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत् - "णामं णामस्स व णामतो य करणंति णामकरणंति । ठवणाकरणं नासो करणागारो य जो जस्स ॥ १ ॥" द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति ( कृयल्युटो बहुलम् पा० ३-३-१३३ ) कर्म्मण्यपि १ नाम नाम्नो वा नामतश्च करणमिति नामकरणमिति । स्थापनाकरणं न्यासः करणाकारश्च यो यस्य ॥ १ ॥
Jain Education Bional
For Private & Personal Use Only
6
असंस्कृता.
४
॥ १९४॥
inelibrary.org