Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 352
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् तत्किं यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि ?, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैतदवस्थितमित्यन्तः साता दिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिबन्धनं तर्हि किं नैकात्मस्थितं सर्वात्मखपि, उक्तं च-"जइ वावि बृहद्वृत्तिः भिन्नदेसपि वेयणं कुणइ कम्ममेवं ते । कह अन्नसरीरगयं ण वेयणं कुणति अन्नस्स ? ॥१॥" तथा च कृतनाशाक॥१७५॥ ताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निवन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारि त्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तर्हि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात् , युगपदुभयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहिःस्थमन्तःसञ्चारितया वेदनाहेतुरेवमन्तःस्थितं बहिःसञ्चारितया तद्धेतुरिति विपर्ययकल्पनाऽपि किं न ?, नियामकाभावात् , सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-“ण भवंतरमण्णेई सरीरसंचारतो तदणिलो ध"त्ति, किञ्च-काञ्चनोपलयोरपि पृथग्भावोऽस्ति वा न वा ?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात् , अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन स्पृष्टमात्रता तथा जीवकर्मणोरपि स्यात्, न च काञ्चनसत्तैव तत्र पूर्व नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यन्नास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च–'यत्र यद्वेदनाहेतुः, कम्मे | १ यदि वाऽपि भिन्नदेशमपि वेदनां करोति कर्म एवं ते । कथमन्यशरीरगतं न वेदनां करोत्यन्यस्य ? ॥१॥२ न भवान्तरमन्वेति दि शरीरसञ्चारतस्तदनिल इव । 156450525345%2595 ॥१७५॥ For Privale & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458