________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
॥७०॥
चरणहीणो ॥२॥" न च मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि-'यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामयनन्तरजन्मा तत्कारणोऽङ्करः, तथा च क्रियानन्तरभाविनी मुक्तिरिति यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः-यदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं मुक्त्यवाप्तिस्तदा ज्ञानमस्ति वा न वेति ?, नास्ति चेच्छैलेश्यवस्थाऽपि कथम्, न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावखभावावभासि केवलज्ञानम् , एवं च सति कथमुभयाविनाभावित्वेऽपि नोभयफलत्वं मुक्तेः, उक्तं च-"सहचारित्तेऽवि कहं कारणमेगं न उण एगं" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तरवापिका शक्तिरसती कथं समुदायेऽपि भवति ?, न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, यथा प्रत्येकमसत् समु|दिताखपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम्-'पत्तेयमभावाओ निवाणं| समुदियासुविण जुत्तं । णाणकिरियासु बुत्तुं सिकयासमुदाय तिलं व ॥१॥', उच्यते, स्यादेवं यदि सर्वथा प्रत्येक तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोषः, आह च-“वीसुं ण सबहु चिय सिकयातिलं व साहणाभावो । देसोवकारिया जा सा समवायंमि संपुण्णा ॥१॥"
१ सहचारित्वेऽपि कथं कारणमेकं न पुनरेकम् । २ प्रत्येकमभावात् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञानक्रिययोर्वक्तुं सिकतासमुदाये तैलमिव ॥ १॥ ३ विष्वग् न सर्वथैव सिकतातैलवत्साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥१॥
॥७०॥
Jan Edu
a
l
For Private & Personal use only