Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 445
________________ Jain Education International 2010_ प्रजने कायेति पुत्रवती चेति । वृद्ध स्त्रियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतः - यथैष घटो यत्र उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपि " । तदप्रतिमप्रतिजाप्रमुदितेन गुरुणा न्यगद्यत द्वितीयः - "वत्स ! | विविधविनयकरणेऽपि तव मयि तादृग्बहुमानो न, एतस्य तु सम्यग्बहुमानो, वैनयिकी बुद्धिश्च सम्यग्बहुमानगर्जविनयादेव स्फुरति, ततो ममात्र न कश्चिद्दोषः । इति विनयबहुत्वेऽपि बहुमानाबहुमान दृष्टान्तः । तथायां समन्वितकुमारपालस्य ज्ञातं चेदं तथाहि - श्रीपत्तने जिनागमसमाराधनतत्परेण कुमा| रपालेनैकविंशतिज्ञानकोशाः कारिताः, त्रिषष्टिशला कापुरुषचरित्राणि श्रोतुमिष्ठता च श्रीगुरूनन्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रलोकमितं कारयित्वा सुवर्णरूप्याद्यदरैर्लेखयित्वा स्वावासे नीत्वा रात्रिजागरणं कृत्वा प्रातः पट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकद एक घासप्ततिचामरोपवी जनादिमहोत्सवपरंपरापूर्वकं शालायां नीत्वा घासप्ततिसामन्तादियुतेन श्री गुरु निर्व्याख्यायमानं सौवर्णरलपट्टकूलादिपूजादिविधिना श्रुतं । एवमेकादशाङ्गवादशोपाङ्गादिसिद्धान्तप्र तिरेका सौवर्णाद्य दरैले खिता, वाच्यमाना च गुरुचिः श्रुता शुद्धबुद्धिना । योगशास्त्रवीतरागस्तवघात्रिंशत्प्रकाशाः सौवर्णाक्षरा हस्तपुस्तिकायां खेखिताः । प्रत्यहं मौनेनैकशो गुण्यते सा पुस्तिका देवतार्चावसरे पूज्यते स्म च । “गुरुकर्तृका ग्रन्था मया नियमेन लेख्याः” इत्यनिग्रहं जग्राह । सप्तशती लेखकानां निरन्तरं लिखति । एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशाला विलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरूणां पृष्टं । गुरु जिरूचे - "श्री चौलुक्यदेव ! सम्प्रति श्रीतारुपत्राणां त्रुटिरस्ति ज्ञानको For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512