Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 485
________________ Jain Education International 2010 सहसा प्रणष्टा । मुनिस्तु निरुपसर्गों गुर्वन्तिक श्राजगाम । ततो गुरुः प्राह - " तव बुद्धिकौशल्यमधिकतरं समुद्रपूरसन्निनं, वर्तमानकाले साम्यं विना नैतद्योग्यं, अतस्तन्निवारणार्थं युगन्धरीतुंबणकं तत्रयुतं च कलिङ्गव्यञ्जनमन्विष्य लक्षणीयं येन बुझिन्यूना जवति । तरबूज कखिङ्गं च भोज्यं शीतं च वातुलम् । कपित्थबदरी जम्बूफलानि घ्नन्ति धीषणाम् ॥ १ ॥ ततो गुरुवचसा तेन तत्स्वीकृतं बहुधा तदेव प्रक्ष्यति । अथ गुरुस्तं महायोग्यं मत्वा सूरिपदं दत्तवान् । क्रमेण स्तम्जनकस्थाने प्राप्तः । तत्तुम्वाहाराहरणान्महाव्याधिकुष्ठरोगपीमितो हस्तमपि चालयितुं न शक्नोति । ततः सन्ध्यायां पाक्षिकप्रतिक्रमणं कृत्वा श्राधानामग्रे प्राह - "कट्येऽनशनं ग्रहीष्यते, | देहपीरुया क्षणमपि स्थातुं न शक्यते " । सर्वेऽपि महाखेदं दधुः । अत्रान्तरे रात्रौ शासनदेवी समेत्य प्राह - " प्रनो ! स्वपिषि जागर्षि वा ?” । गुरुणोक्तं - "जागर्मि" । देवी प्राह – “उत्तिष्ठ, नवैताः सूत्रकोक्कमिका उत्खेलय" । गुरुराह - " कथमेवंविधशरीरेणोत्खेलयामि ?" । देवी प्राह - " नवाङ्गवृत्त्यु - त्खेखनं तवाधीनं वर्तते, तस्याग्र इदं कियन्मात्रं, हस्ते गृहाण त्वं, चिरकालं जीविष्यसि । गुरुराह - " कथमेवंविधदेहोऽहं श्री मौनीन्द्रागमनवाङ्गटीकां विधास्यामि ?" । देवताऽवदत्-"षणमासीं यावदाचाम्लतपः कुरु" । श्रथ श्रीशासनदेवतादेशात् षण्मासीं यावदाचाम्खानि निर्माय कठिन प्रयोगेण नवाङ्गवृत्तिं व्यदधात् । ततो वपुषि प्रार्जूते प्रभूते रोगे श्रीधरणेन्द्रः सितसर्परूपमास्थाय त६पुर्जिह्वयाऽऽजिह्य प्रसह्य निरामयीकृत्य " स्तम्ननपार्श्वप्रतिमां सेढी नदीतटे भूमौ उन्नां स्थितां प्रकटीकुरु, तत्र सहसा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512