Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
वाचयित्वा विषमाः प्रोचुः- "हे कुमार ! किं खेदमुघहसि ? पुनरस्य निर्णयं करिष्यामः" । स प्राह“मौर्यान्वये कोऽपि गुर्वाज्ञालङ्घकोऽद्यापि न जातः, यदि प्रथममेवाज्ञामहं खोप्स्यामि तदा मत्कृत एवाध्वाऽन्येषामपि चविष्यति । ततः स नेत्रे स्वयं तप्तशलाकयाऽनक्ति स्म । नूपस्तव्यतिकरमवगम्य दध्यौ-"धिक् कूटलेखकं स्वात्मानं" इत्युच्चकैर्निनिन्द "धिमां सम्यक् पुनरनालोक्य लेखप्रेषक" । ततः परंपरया तदपरमातृनिष्पादितं कार्य विज्ञाय स्त्रीजातिइष्टत्वं निर्धार्य दध्यौ-"अधुनाऽयं पुत्रो|ऽन्धत्वाधाज्यं मएमलित्वं वा न ह्यईति, अहो ! मयि यस्येदृशी शक्तिस्तस्येदृशमागतं" । ततः कुणा-1 लायाशोकश्रीमहर्षिकमेकं ग्रामं ददौ, तदपरमातुः पुत्रायोजयिनी पुनर्ददौ । कुणासस्य क्रमेण परेद्यवि । शरबियां पन्यां सूनुः संपूर्णलक्षणो जातः । तत्पुत्रे महति संजाते कुणालो राज्यलिप्सया पाटलिपुत्रमागात् । ततो गीतविनोदेन स्वेचया स पुरे नमन् सर्वलोकानां प्रियो बभूव । तत्पुत्रो यत्र यत्र विशन् । जगौ तत्र तत्र गीताकृष्टाः पौराः कुरङ्गवद्ययुः । लोकमुखाजान्धर्वकलाकुशलं तं नरं श्रुत्वा गीतश्रवणोत्सुको नृपस्तमन्धं नरमाहूय जवनिकागुप्तं कृत्वा गातुं समादिशत् । सोऽपि यथास्थानमन्त्रमध्यतारैः। सप्ततिः स्वरैः पद्यप्रवन्धमीदृशं रागं पोषयन् जगौ
प्रपौत्रश्चन्मगुप्तस्य बिन्सारस्य नतृकः । एषोऽशोकश्रियः पुत्रः अन्धो मार्गति काकिणीम् ॥ १॥
पद्यप्रबन्धमन्धेन गीयमानं जूपः श्रुत्वा पप्रच-"किनामा त्वं हे गायक ! आख्याहि"। al स उवाच तवैवास्मि कुणाखो नाम नन्दनः । त्वदाज्ञालेखमीदित्वा योऽन्धः स्वयमजायत ॥ १॥
For Private Personal Use Only
www.jainelibrary.org
Join Education International 2010 05

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512