Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 125
________________ 5 10 15 20 दामोदरविरचितं 'संस्कृतं तु 'सर्वत्रैकं । तथा तत् फल्गुखरूपमनुपादेयमव्यवस्थितम् एतत् तु सारभूतं दिव्यखरू - पम् । तथा तदनेकं प्राकृत - अपभ्रंश - पैशाचिका दिभेदभिन्नम्। एतत् पुनरेकस्वरूपमेवेत्यर्थः ॥ छ ॥ अथ * श्रोतृप्रवृत्त्यङ्गं शास्त्रप्रयोजनमाह स्यादित्यादी कृत्वा श्रुत्वा लिङ्गानुशासनं किञ्चित् । उक्तिव्यक्ति बुद्धा बालैरपि संस्कृतं क्रियते ॥ २॥ 2 • स्यादिश्च त्यादिश्च ते वृत्वा ' स्यादि - त्या दिसञ्ज्ञयोबलव्युत्पत्तिशास्त्रयो रूपसिद्धिं कृत्वेत्यर्थः । किञ्चिच्चैकतमं लिङ्गानुशासनं पुं- स्त्री- नपुंसकत्वं शब्दानां येन शास्त्रेणानुशास्यते शिक्ष्यते [ त ] सर्ववर्मकृतमन्यद्वा श्रुत्वा गुरोरधिगभ्य । एतावत्येव संदशास्त्राभ्यासापेक्षा प्रायेणात्रेत्यर्थः । एतावत्यां च सामग्र्यां सत्याम्, उक्तिव्यक्तिमुक्तिव्यक्तिसञ्ज्ञमिममन्वयोत्पत्त्युपायं _ [प० ६-१] बुद्धा = सम्यगवगम्य बालैरपि = अप्रगल्भैरपि किमुच्यते प्रगल्भैः, संस्कृतं क्रियते = संस्कृतभाषया जल्प्यत इत्यर्थः ॥ छ ॥ [ कारिका २-४. ननु केयमुक्तिर्नामेत्याह या वक् किमपि भवेदिच्छा सा कीर्तिता विवक्षेति । तदनु च तदनुगतं यद् भाषितमिह तां वदन्त्युक्तिम् ॥ ३ ॥ - किमपि जगति व्यवह्रियमाणं वस्तु वक्तुं = अभिधातुं या इच्छा सा विवक्षा । तदनु विवक्षोत्पत्तेरनन्तरं तदनुगतमभीष्टविषयाश्रयं यद् भाषितं = भाषणं वाग्व्यापारः, तां वदन्त्युक्तिं = तस्मिन्नर्थे प्रयुञ्जते अत्रोक्तिशब्द छात्रा इत्यर्थः । सा चोक्तिः किमर्थं क्रियत इत्याह सा च ' खपरविवक्षानुगताऽऽकांक्षानिवृत्तिमुत्पाद्य । लोकानां व्यवहारे हेतुः स्यादिन्द्रियाणीव ॥ ४ ॥ یا Jain Education International सा चोक्तिर्द्विविधा लोकव्यवहारे दृश्यते । स्वविवक्षानुगता, परविवक्ष नुगता च । यतो ते कश्चिदेक एव, तत्र किं लोकव्यवहारार्थेन वाग्व्यापारेण, प्रबोध्याभावात् । अनेकजन समवाये च यो वाग्व्यापारो व्यवहारनिमित्तः, स उक्ति-प्रत्युक्तिखरूप एव । यत एकः खाभिमतं प्रकटयत्यपरस्तदनुगतमुत्तरं ददाति । एवं हि व्यवहारः [ ५०५-२ ] 25 प्रवर्त्तते । तयोश्च ये उक्ति-प्रत्युक्ती ते ख- परविवक्षानुगते एवार्थात् । अन्यथा व्यवहारासंभवःत् । अत उक्तं सा च स्वपरविवक्षानुगतेति । आकांक्षानिवृत्तिमुत्पाद्येति - उक्त्या प्रत्युक्त्या वा परेण कथ्यमानखाभिप्रायमवगन्तुं या इच्छा साऽऽकांक्षा, तस्याश्च निवृत्तिः • 1 ° शंस्कृ° : 2 शर्व। 3 °स्वासार° 4 श्रोत्रि 5 °स्रयं । 6 °स्वपरि° । 7 कान्ते कचिदेकान्ते कश्चिदे° । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192