Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 142
________________ कादिका १९.४ . उक्तिवन्तिप्रकरणम् । .. १९ • नन्वतैः कालादिभिः पल्लवैर्यावन्तो भेदी भवन्ति तत्संख्याऽपि किमिति न-दर्शिता इत्याह - .. एतभेदवशात् पुनरुक्तीनां न्या भिदो न ताः कथिताः। . यस्माद्धम्मिणिं विदिते तद्गतधर्माः स्वसंवेद्याः ॥ २९ ॥ यदा हि पट जातस्तदा तद्गता ये शुक्लत्वैकत्वसूक्ष्मत्वादयो धास्ते तत्संबन्धत्वाद् विदिता एवार्थात् । यतः संकेतादर्थाधिगतिधर्मविशिष्टश्च । धर्मी संकेतविषय इति भावः।। • यसाद् - इति । धर्मिणि धात्वर्थलिङ्गार्थादिके विदिते सति तद्गता ये धर्मा अवयवप्रायास्ते स्वसंवेद्या एव - खयमेवात्मानं वेदयन्ति । न हि गवि ज्ञाते खुर-ककुदादयः शाबलेय-धावलेयत्वादयो वा धर्मास्तद्गता अविज्ञाता भवन्ति । धर्मिणो धर्माश्रयत्वात् । यस्य बस्तुनो यत्वरूपं स तस्य धर्म उच्यते यतः । तस्मात् धर्मनिबन्धना ये धर्मिणां भेदास्तेषां विशेषकथनमनुप [ प० २४-२] युक्तमेवेति । तस्मान्नवानामेवोक्तिभेदा दयन्त इति भावः । । ___ अथोदाहरणानि । तत्र च लिङ्गार्थादीनां नवानामप्येकैकस्य, ततो द्वयोर्द्वयोः; इत्यादिक्रमेण ये भेदास्तेऽत्रोक्तिप्रत्युक्तिभ्यां विभक्ता लिखनीयाः । लोकव्यवहारस्यं तदात्मकत्वात् । उक्तिर्हि प्रश्न उच्यते तदुत्तरं च प्रत्युक्तिः। प्रश्नोत्तरस्वरूपश्च लोके शब्दव्यवहारः प्रायः। यश्च प्रश्नविषयः स 'किं' शब्देन लोकैः प्रयुज्यते । अतो यत्रोक्तौ लिङ्गार्थादिषु यावन्तः 'कि' शब्दविषयाः, सा तावतामुक्तिरुच्यते । एकस्मिन् पृष्टे सत्येकस्योक्तिः, द्वयोः पृष्टयो यो । रुक्तिः, त्रिषु त्रयाणामित्यादि यावन्नवसु पृष्टेषु नवानामिति । तत्र लिङ्ग-संख्या-पुरुषैः फ्लवैर्विभक्तस्य केवललिङ्गार्थस्य विवक्षायामुक्ति-प्रत्युक्त्योर्यथा - परिचितेन सहागतमपरिचितं दृष्ट्वा कश्चित् कंचित् पृच्छति- 'को ए' - कोऽयम् । परिचितस्योत्तरम् [प० २५-१] - 'मोर विसिठ्ठ'- मम विशिष्टः। अत्र हि प्रश्नोत्तरयोरव्यतिरिक्तो लिङ्गार्थो विषयः, अत इयं लिङ्गार्थोक्तिरुच्यते । एवं वक्ष्यमाणोदाहरणेष्वपि ज्ञेयम् । 'को ए' – कावेतौ ?, राजपुरुषो । 'को ए'-क: एते !, राजद्विजाः । स्त्रीविषये तु प्रश्ने यथा- 'को ए-केयम् ?, ब्राह्मणी । 'को ए.'के एते द्वे ?, मासोपवासिन्यौ । 'को ए जोई'- का एता युवत्यः ?, प्रोषितभर्तृकास्त्वत्सेवकसिष्टा(शिष्यानां वध्वः । नपुंसकविषये यथा-- 'काह ए' - किमिदम् !, द्वीपान्तरफलम् ।। 'काह ए दुइ वस्तु' - के एते द्वे वस्तुनी ?, लवण-हिङ्गुनी । 'काह ए 'सव' कान्येतानि सर्वाणि ?, त्वद्भार्याभरणानि । सामान्योक्तौ तु प्रश्ने- 'काह ए' - किनिदम् , वृक्षः, : कुण्डम् , कुमारीत्याद्युत्तरं भवत्येव । निर्धारितप्रश्ने तूक्तियथा । 'तेन्ह मांझं कवण ए' -तयोस्तेषां वी मध्ये कतमोऽयम् !, सर्वज्येष्ठः । अथवा कतमावेतौ !, ज्येष्ठ-कनिष्ठौ। [प० २५-२] कतमे एते ?, ज्येष्ठभार्यापुत्राः । कतमेयम् !, कनिष्ठा वधूः । कतमे एते ?, ज्येष्ठपुत्रवध्वौ । कतमा एताः !, राज्ञो विलासिन्यः। 'अरे जाणसि एंन्ह मांझ कवण तोर भाइ'- अहो जानास्येषां मध्ये कस्तव भ्राता :, : उत्तरम् - त्वम् । पार्श्वसः पृच्छति- 'लहुडा कवण' - कनिष्ठः कतमः ?, उचरम् - 'हौं' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192