Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 155
________________ दामोदरविरचितं . [कारिका २९. 'कैसे काह करत, को कस इंहां, कैसे काह पढ़, कैसें कांहे, कैसे का किंह, कैसे हि काहितौ, कैसें ककरें, कैसे काहां' -कथं किं कुर्वन् , कः कीदृशोऽत्र, कथं किं पठति, कीदृशेन केन, कीदृशाय कस्मै. कीदृशात् कस्मात् , कीदृशे कस्मिन् , कीदृशस्य कस्य । सारदं कुरुः ( सादरं गुरु :-)सेवामसौ विद्यार्थों खाचारः सुस्पष्टामुक्तिव्यक्ति शुद्धन 5 पुस्तकेनान्वयार्थिने खस्मै शिष्यहिताद् गुरोनिरुपद्रवे गृहे अस्यैवोपकारशीलस्येति ॥ छ । एते च लिङ्गार्थादयो विवक्षाक्रपेण छन्दोनुरोधेन च यथेष्टमपि प्रयोज्याः, नतूक्तक्रमेणैव । एतस्मादर्थदशकांच्च बाह्य एकादशोऽर्थो वेदेषु [प० ३७-१] शास्त्रेषु लोकेषु वा कापि नास्त्येव प्रायः, तस्य नरोगा दर्शनात् । एतानि च दशपदानि मूलानि कृत्वा. य एषां पल्लवाः- कालभेदजा आख्यातिककार्त-प्रत्ययार्थ-विशेषभावाद् लिङ्ग-संख्या-पुरुषभेदकृता 10 उक्तानुक्तत्वनिबन्धना विशेषण विशेष्यभावभाविनस्ते च नियतसंख्या अप्यनियतसंख्या एव । लोकोक्तिभङ्गीनामपरिसंख्येयत्वात् । किन्तु मूलमाश्रित्य विवक्षा भवति । तच्च दशविधमेव । तदनुगताश्च पल्लवा विवक्षिता अविवक्षिता वा यथेष्टं प्रवर्तन्त एव । अत एकादशोत्तराणि पञ्चशतान्येवोक्तीनामित्युक्तम् । एवं स्थिते त्रि(वृ?)तस्यादि-त्यादयो दर्शितकिङ्गानुशासनाश्च बाला यथायज्ञमेक-यादि तिवक्षाक्रमेणोक्ति शिक्षयितव्याः । ततो ज्ञातनिःशेषोक्तिभेदाः 15 संस्कृतं जानन्येव परम् । तथा च सति यदि विशेषसंस्कारार्थ शब्दशास्त्रं सा(श्रा)व्यन्ते तदा को दोषः । किं च तदा तत् तेषां सुखग्राह्यं भवति । गुरुरपि चानायासेनैव बोधयत्यचिरेण च । इतरथा तु स्यादित्याद्योलिङ्गानुशासनानां च निर्माणमभ्यसनं च निरर्थकमेव । अकृततदाभ्यासानामपि शब्दशास्त्रस्य जा(या)वज्जीवाभ्यासेन [ प० ३७-२ ] तदर्थावगमदर्शनात् । न च कृततदभ्यासानां ज्ञातशब्दशास्त्राणामभ्यस्ततर्कमीमांसार्थशास्त्रशा(सा)हित्यानाम पि लेखपत्रादिषु 20 लोकव्यवहारोपयुक्तेषु [ओनभ्यस्तोक्तिप्रकाराणां प्रावीण्यं कदाचनापि भवति । श्यन्ते हि सर्वज्ञा अपि छान्दसवदितरजनवद् वा तदर्थं तदभिव्यक्तमभ्यर्थयन्तः, इतरजनेषु पठितमूर्ष(ख)व्यपदेशभाजश्च । उक्तिप्रकाराभिज्ञास्त्वज्ञातेतरशास्त्रा अपि लोकव्यवहारं प्रवर्त्य(त)यन्ती राजगृहादिषूपादेया दृश्यन्त एव । अतः शास्त्रस्य प्रथम दृष्टफलं लोकव्यवहार एव । अत एवैतच्छास्त्रं कृतम् । तस्माद् उक्तिव्यक्तिं बालाः शिक्षयितव्या एव ॥ छ । ॥ इत्युक्तिव्यक्तिविवृतावुक्तिभेदव्याख्या ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192