Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 154
________________ कारिका १९..] उक्ति व्यक्तिप्रकरणम् । ३१ अथाष्टानां विवक्षायामुक्तयो लिख्यन्ते । तत्र; पूर्वेण परेषु सप्तसु युक्तेषु द्वे उक्ती यथा'को ए काह• करत को ईहां काह पढ काहें का किह का. पासु• काहां' – कोऽयं किं [ १० ३६-१ ] कुर्बन् कोऽत्र किं पठति के कस्मै कुतुः कुत्र !, छात्रोऽयं गुरुसेवा अयमत्र · शास्त्रं पुस्तकेनात्मने पण्डितादालये । १। 5 'काह करत को हां काह पढ [ काहें ] का किंह का पास काहां ककरें' - किं कुर्वन् कोऽत्र किं पठति केन कस्मै कुतः कुत्र कस्य ?, गुरुसेवां छात्रः शास्त्रं पुस्तकेनात्मने पण्डितादालये द्विजस्य । २ । - एवमादयो अन्या अपि अष्टविवक्षोक्तयो नवसंख्याः प्रयोज्याः ॥ छ ॥ नवानां विवक्षायामेकैवोक्तिः । यथा - " को ए काह करत को काह पढ काहें का किहूं का पास काहां ककरें – क एष किं 10 कुर्वन् कः किं पठति केन कस्मै कुतः कुत्र कस्य ?, छात्रोऽयं गुरुशुश्रूषामसौ शास्त्रं पुस्तकेनात्मने पण्डितादाश्रमे ब्राह्मणानाम् । १ । एवमत्रोक्तीनामेकादित एकाशीतिर्दर्शिता । अनेनैव च क्रमेण पञ्चशतान्येकादशोत्तराणि प्रयोज्य बालानां दर्शयितव्यानि । - आमंत्रणपदविवक्षायां चैता उक्तयस्तत्सहिताः प्रयोज्याः । यथा .." अहो को तुं' - भोः कस्त्वम् ?, देवदत्तोऽहमित्यादि ॥ छ ॥ अथ दशानामप्यर्थानामुक्ति - प्रत्युक्ती भुजङ्गप्रयाताभ्यां यथा सखे ब्रूहि कस्त्वं चिरं किं च कुर्वन् लिखेत् कः किमत्रेदृशं केन कस्मै । [ १० ३६-२ ] कुतः कुत्र कस्येति लोकोक्तिरेषा यदैकत्र वाच्ये दशानां विवक्षा ॥ . अहं विप्रपुत्रः पठन्नेव शास्त्रं लिखामि स्वयं पाणिनैवात्मने खात् । गुरोः प्राप्य तिष्ठन् गृहेऽस्यैव रम्ये प्रयोगप्रकाशं य ( ज ) गत्वार्थहेतुम् ॥ इदमुक्तिव्यक्तिशास्त्रं प्रयोगप्रकाशापरनामधेयमित्यर्थः । सविशेषणेषु च विवक्षितेषु तत्सहिताः प्रयोज्याः । यथा को ए मुंडें मुंडे दीर्घी चूलीं धोती परिहें' - कोऽयं मुण्डितत्सुण्डो दीर्घचूडः परिहितधौतवस्त्रः ?, विद्यार्थी । · Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192