Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
दामोदरविरचितं
[कारिका २९. 'सेंफे खुहु खुहु कर' - श्लेष्मणा क्षुहुत् क्षुहुत् काश(सोते। कास शब्दकुत्सायाम् ।
'क्षुहुदित्यव्यक्तानुकरणम् । 'पुनवन्तेकरें भोजं भूषे(ख) बाह्मण अघांति' - पुण्यवतो भोज्येषु बुभुक्षिता ब्राह्मणा
आघवन्ते । गुङ घुङ गतौ । आघ(घ)ति आधयन्ति वा । अघ पापकरणे विकल्प
नन्तः, अनेकार्थत्वात् ।। 'हलुअ वथु पाणिं तरंग' -- लघुकं वस्तु पानीये प्लवते । पुङ प्लुङ गाङ सीङ गतौ ।
तरंग इवाचरति, तरंगायते वा । . 'चडई [प० ४१,१ ] पाखे रुअ वायं उडा' - चटिकापक्षण तूलं वातेनोड्डीयते । डीङ • विहायसां गतौ । ‘ओंदें कापडं पाणि गल' – आर्दे(दें) कर्पटे पानीयं गलति । गड सेचने । डलयोरेकत्वे । 'वर्षाकालं मीनिं विसम' – वर्षाकाले भित्तिर्विषमति । षम ष्टम वैकल्ये । 'पर्वतउ टलथि विसिठु कि बल' - पर्वतोऽपि टलति विशिष्टः किं बलति । टल ट्वल
वैकल्ये । बल प्राणने । 'सिष्ट आपणे बोलें न जलइ' - सि(शि)ष्ट आत्मीयवचसि न चलति, बोले वा। बुल ___ निमज्जनेऽनेकार्थः। 'मीच्छे बोले काउ न रोहइ' – मिथ्याभाषिते कदाचनापि न रोहति । रुह जन्मनि । . 'जों फुड बोल सो गांग न्हा' - यः स्फुटं वदति स गंगां खातीव । 'विलखाई रोव' -विलक्षया रोदिति । रुदिरु अस्र(श्रु)विमोचने। । 'उणींद भा तेई सोअ'- उन्निद्रो भूतस्तेन खपिति । जिष्वप् स(श)ये । 'निदालुध जांत भीति अभिड' -निद्रालुब्धो गच्छन् भित्तावभीट्टे । ईड स्तुतौ ।. 'जो जाग, सो वाग'-यो जागर्ति स वल्गते । जागृ निद्राक्षये । सावधानो न मुष्यत . 'इत्यर्थः । 'जो पूच्छ सो आच्छ' – यः पृच्छति स आस्ते । आश(स) [प० ४१-२ ] उपवेश(स)ने ।
पर्यालोचितकर्ता न नश्यतीत्यर्थः । 'पूतकरें वधावें नाच' - पुत्रस्य वर्धापनके नृत्यति । नृती गात्रविक्षेपे । वर्धापनं चुरादि
निपातेषु । • 'घाम घाला उद सुखा' - धर्मे घातितं सार्द्र सु(शुष्यति । शुष शोषणे । हत्यर्थाश्चेति
खार्थे नन्ताद्धन्तेर्घातितमिति रूपं प्रापितमित्यर्थः।। 'धावन्त पसीज' - धावन् प्रखिद्यति । खिदा गात्रप्रक्षरणे । 'पंचगवें पीएं सूझ' – पञ्चगव्ये पीते सु(शु)ध्यति । शुध शौचे। . 'स्शु(सु) काहु न सीझइ' - रसः कस्यापि न सिद्ध्यति । षिधु संराघौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192