________________
दामोदरविरचितं . [कारिका २९. 'कैसे काह करत, को कस इंहां, कैसे काह पढ़, कैसें कांहे, कैसे का किंह, कैसे हि काहितौ, कैसें ककरें, कैसे काहां' -कथं किं कुर्वन् , कः कीदृशोऽत्र, कथं किं पठति, कीदृशेन केन, कीदृशाय कस्मै. कीदृशात् कस्मात् , कीदृशे कस्मिन् , कीदृशस्य कस्य ।
सारदं कुरुः ( सादरं गुरु :-)सेवामसौ विद्यार्थों खाचारः सुस्पष्टामुक्तिव्यक्ति शुद्धन 5 पुस्तकेनान्वयार्थिने खस्मै शिष्यहिताद् गुरोनिरुपद्रवे गृहे अस्यैवोपकारशीलस्येति ॥ छ ।
एते च लिङ्गार्थादयो विवक्षाक्रपेण छन्दोनुरोधेन च यथेष्टमपि प्रयोज्याः, नतूक्तक्रमेणैव ।
एतस्मादर्थदशकांच्च बाह्य एकादशोऽर्थो वेदेषु [प० ३७-१] शास्त्रेषु लोकेषु वा कापि नास्त्येव प्रायः, तस्य नरोगा दर्शनात् । एतानि च दशपदानि मूलानि कृत्वा. य एषां पल्लवाः- कालभेदजा आख्यातिककार्त-प्रत्ययार्थ-विशेषभावाद् लिङ्ग-संख्या-पुरुषभेदकृता 10 उक्तानुक्तत्वनिबन्धना विशेषण विशेष्यभावभाविनस्ते च नियतसंख्या अप्यनियतसंख्या एव । लोकोक्तिभङ्गीनामपरिसंख्येयत्वात् । किन्तु मूलमाश्रित्य विवक्षा भवति । तच्च दशविधमेव । तदनुगताश्च पल्लवा विवक्षिता अविवक्षिता वा यथेष्टं प्रवर्तन्त एव । अत एकादशोत्तराणि पञ्चशतान्येवोक्तीनामित्युक्तम् । एवं स्थिते त्रि(वृ?)तस्यादि-त्यादयो दर्शितकिङ्गानुशासनाश्च बाला यथायज्ञमेक-यादि तिवक्षाक्रमेणोक्ति शिक्षयितव्याः । ततो ज्ञातनिःशेषोक्तिभेदाः 15 संस्कृतं जानन्येव परम् । तथा च सति यदि विशेषसंस्कारार्थ शब्दशास्त्रं सा(श्रा)व्यन्ते तदा
को दोषः । किं च तदा तत् तेषां सुखग्राह्यं भवति । गुरुरपि चानायासेनैव बोधयत्यचिरेण च । इतरथा तु स्यादित्याद्योलिङ्गानुशासनानां च निर्माणमभ्यसनं च निरर्थकमेव । अकृततदाभ्यासानामपि शब्दशास्त्रस्य जा(या)वज्जीवाभ्यासेन [ प० ३७-२ ] तदर्थावगमदर्शनात् । न च कृततदभ्यासानां ज्ञातशब्दशास्त्राणामभ्यस्ततर्कमीमांसार्थशास्त्रशा(सा)हित्यानाम पि लेखपत्रादिषु 20 लोकव्यवहारोपयुक्तेषु [ओनभ्यस्तोक्तिप्रकाराणां प्रावीण्यं कदाचनापि भवति । श्यन्ते हि
सर्वज्ञा अपि छान्दसवदितरजनवद् वा तदर्थं तदभिव्यक्तमभ्यर्थयन्तः, इतरजनेषु पठितमूर्ष(ख)व्यपदेशभाजश्च । उक्तिप्रकाराभिज्ञास्त्वज्ञातेतरशास्त्रा अपि लोकव्यवहारं प्रवर्त्य(त)यन्ती राजगृहादिषूपादेया दृश्यन्त एव । अतः शास्त्रस्य प्रथम दृष्टफलं लोकव्यवहार एव । अत एवैतच्छास्त्रं कृतम् । तस्माद् उक्तिव्यक्तिं बालाः शिक्षयितव्या एव ॥ छ ।
॥ इत्युक्तिव्यक्तिविवृतावुक्तिभेदव्याख्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org