________________
कारिका २९.]
उक्तिव्यक्तिप्रकरणम् । • अथ अकर्मक-सकर्मका एवम्' [ का०९] इत्युक्तम् , अतो बालशिक्षार्थं तदनुगता लोकोक्तयो अपरा अपि कियन्त्यो लिख्यन्ते । तत्राकर्मकधात्वर्थानुग]तास्तावद् यथा -
'गांग न्हाएं धर्म हो; पापुजा' - गङ्गायां स्वति धर्मो भवति, पापं याति । •अथवा - 'धर्मु भा, पापु गा' - धर्मो बभूव, पापं जंगाम ।
अथवा- 'धर्म होइह, पापु जाइह' - धर्मों भविष्यति, [प० ३८-१] पापं यास्यति । - एवमन्येऽपि पल्लवाः पूर्वोक्ताः प्रतिप्तयोगं योज्याः बालशिक्षार्थम् । ग्रन्थविस्तरभयाच न दर्शिताः॥ छ । • 'जस जस धर्म वाढ, तस तुस पापु घाट' - यादृग् याहग् धर्मों वर्षते, तादृग् तादृग् पापं • घट्टति, घट्टयति वा । घट्ट चलने भ्वादौ, चुरादौ च ।। 'जब जब धर्म वाढ, तब तब पापु ओहट' - यदा यदा'धर्मों वर्धते, तदा तदा पापं । ___ अवघटति, अवघटयति वा । घट संघाते चुरादौ । 'जैसें जैसें धर्म जाम, तैसें तैसें पापु षा(खा)म' – यथा यथा धर्मो जायते, तथा तथा
[पापं क्षीयते । जनी प्रादुर्भावे; क्षि क्षये, क्षयति वा । 'जेंइं जेई धर्म पसर, तेई तेइ पापु ऑसर' - येन येन धर्मः प्रसरति, तेन तेम .पापम
पसरति । सृ गतौ, उपसर्गादर्थान्तरम् । 'यहा यैहा धर्म चड, तैहा तैहा पापु खस' - यस्मिन् यस्मिन् धर्मश्चटति चटयति वा, . तस्मिन् तस्मिन् पापं स्खलति हसति वा । चट स्फुट भेदने; स्खल संचये, चलने __ च । तुश(स) हश(स) शब्दे । 'जाहां जाहां धर्म नांद, ताहां ताहां पापु मान्द' - यत्र यत्र धर्मो नन्दति, तत्र तत्र पापं • • मन्दते । टुणदि समृद्धौ; मदि स्मृतिमोदादिषु, गतावत्र ।। 'जा किंह धर्म कीज, ता किंह पापु खीज' -- [प० ३८-२ ] यस्मै धर्मः क्रियते [तस्मै ।
पापं क्षीयते । डुकृञ करणे, क्षीज कूजेत्यादि खिद्यत इवापास्तत्वात्। . 'जातौ धर्ड पाविअ, तातो पापु सामिअ' - यतो धर्मः प्राप्यते, ततः पापं शाम्यति ।
आप्ल व्याप्ती; शमु दमु उपशमे ।। 'याकर धर्मु उसस, ताकर पापु ऑरुस' - यस्य धर्म उच्छसिति, तस्य पापमवहसति ।।
. श्वसं प्राणने हसे(स) हसने हसति वा ।। - एवमन्येऽप्यकर्मकेषु लोकोक्तिप्रकाराः क्रिया-कारकानुसारेण प्रयोज्याः ॥ छ ।
अथापरेऽप्यकर्मकेषु प्रकीर्णप्रयोगा लिख्यन्ते । यथा - 'बाल रैंग' - बालो रिंगति । रिगिर्गत्यर्थेषु । 'अभेलुभा काढत आच्छ' -अम्भेलुकमाकर्षन्नास्ते । अभि.रभि शब्दे; इल प्रेरणे.
आभ्यामम्भेलुकसिद्धिर्यथाकथंचित् । अथवा देशिपदमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org