________________
कादिका १९.४ . उक्तिवन्तिप्रकरणम् । .. १९ • नन्वतैः कालादिभिः पल्लवैर्यावन्तो भेदी भवन्ति तत्संख्याऽपि किमिति न-दर्शिता इत्याह - .. एतभेदवशात् पुनरुक्तीनां न्या भिदो न ताः कथिताः। . यस्माद्धम्मिणिं विदिते तद्गतधर्माः स्वसंवेद्याः ॥ २९ ॥
यदा हि पट जातस्तदा तद्गता ये शुक्लत्वैकत्वसूक्ष्मत्वादयो धास्ते तत्संबन्धत्वाद् विदिता एवार्थात् । यतः संकेतादर्थाधिगतिधर्मविशिष्टश्च । धर्मी संकेतविषय इति भावः।। • यसाद् - इति । धर्मिणि धात्वर्थलिङ्गार्थादिके विदिते सति तद्गता ये धर्मा अवयवप्रायास्ते स्वसंवेद्या एव - खयमेवात्मानं वेदयन्ति । न हि गवि ज्ञाते खुर-ककुदादयः शाबलेय-धावलेयत्वादयो वा धर्मास्तद्गता अविज्ञाता भवन्ति । धर्मिणो धर्माश्रयत्वात् । यस्य बस्तुनो यत्वरूपं स तस्य धर्म उच्यते यतः । तस्मात् धर्मनिबन्धना ये धर्मिणां भेदास्तेषां विशेषकथनमनुप [ प० २४-२] युक्तमेवेति । तस्मान्नवानामेवोक्तिभेदा दयन्त इति भावः । । ___ अथोदाहरणानि । तत्र च लिङ्गार्थादीनां नवानामप्येकैकस्य, ततो द्वयोर्द्वयोः; इत्यादिक्रमेण ये भेदास्तेऽत्रोक्तिप्रत्युक्तिभ्यां विभक्ता लिखनीयाः । लोकव्यवहारस्यं तदात्मकत्वात् । उक्तिर्हि प्रश्न उच्यते तदुत्तरं च प्रत्युक्तिः। प्रश्नोत्तरस्वरूपश्च लोके शब्दव्यवहारः प्रायः। यश्च प्रश्नविषयः स 'किं' शब्देन लोकैः प्रयुज्यते । अतो यत्रोक्तौ लिङ्गार्थादिषु यावन्तः 'कि' शब्दविषयाः, सा तावतामुक्तिरुच्यते । एकस्मिन् पृष्टे सत्येकस्योक्तिः, द्वयोः पृष्टयो यो । रुक्तिः, त्रिषु त्रयाणामित्यादि यावन्नवसु पृष्टेषु नवानामिति । तत्र लिङ्ग-संख्या-पुरुषैः फ्लवैर्विभक्तस्य केवललिङ्गार्थस्य विवक्षायामुक्ति-प्रत्युक्त्योर्यथा - परिचितेन सहागतमपरिचितं दृष्ट्वा कश्चित् कंचित् पृच्छति- 'को ए' - कोऽयम् । परिचितस्योत्तरम् [प० २५-१] - 'मोर विसिठ्ठ'- मम विशिष्टः। अत्र हि प्रश्नोत्तरयोरव्यतिरिक्तो लिङ्गार्थो विषयः, अत इयं लिङ्गार्थोक्तिरुच्यते । एवं वक्ष्यमाणोदाहरणेष्वपि ज्ञेयम् । 'को ए' – कावेतौ ?, राजपुरुषो । 'को ए'-क: एते !, राजद्विजाः । स्त्रीविषये तु प्रश्ने यथा- 'को ए-केयम् ?, ब्राह्मणी । 'को ए.'के एते द्वे ?, मासोपवासिन्यौ । 'को ए जोई'- का एता युवत्यः ?, प्रोषितभर्तृकास्त्वत्सेवकसिष्टा(शिष्यानां वध्वः । नपुंसकविषये यथा-- 'काह ए' - किमिदम् !, द्वीपान्तरफलम् ।। 'काह ए दुइ वस्तु' - के एते द्वे वस्तुनी ?, लवण-हिङ्गुनी । 'काह ए 'सव' कान्येतानि सर्वाणि ?, त्वद्भार्याभरणानि । सामान्योक्तौ तु प्रश्ने- 'काह ए' - किनिदम् , वृक्षः, : कुण्डम् , कुमारीत्याद्युत्तरं भवत्येव ।
निर्धारितप्रश्ने तूक्तियथा । 'तेन्ह मांझं कवण ए' -तयोस्तेषां वी मध्ये कतमोऽयम् !, सर्वज्येष्ठः । अथवा कतमावेतौ !, ज्येष्ठ-कनिष्ठौ। [प० २५-२] कतमे एते ?, ज्येष्ठभार्यापुत्राः । कतमेयम् !, कनिष्ठा वधूः । कतमे एते ?, ज्येष्ठपुत्रवध्वौ । कतमा एताः !, राज्ञो विलासिन्यः। 'अरे जाणसि एंन्ह मांझ कवण तोर भाइ'- अहो जानास्येषां मध्ये कस्तव भ्राता :, : उत्तरम् - त्वम् । पार्श्वसः पृच्छति- 'लहुडा कवण' - कनिष्ठः कतमः ?, उचरम् - 'हौं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org