________________
दामोद्रविरचितं . [कारिका २८. षड्विंशत्यधिकं शतम् । एवं पञ्चानां पञ्चानमिपि पैड्विंशत्यधिक शर्तम् । षणां षण्णा चतुरशीतिः । सप्तानां सप्तानां पत्रिंशत् । अष्टानां अष्टानां नव । नवानामपि विवक्षायामेकम् । एवं पञ्चशतान्येकादशाधिकान्युक्तीनां भवंति । कर्मियं संख्योत्पद्यत इति चेत्, उच्यते - नवकायेकान्तानेकाद्युत्तरच्छेदानकानालिखेत् । ते च प्रथा
९.८ ७ ६ ५ ४ ३ २ - १
.१ २ ३ ४ ५ ६ ७ ८ ९ ततः पूर्वेण परं हत्वा खच्छेदेन भजेत् । लब्धं छेदे संख्यानां पदार्थानामुक्तिभेदसंख्या भवति । तद्यथा-नवानाप्रध एकच्छेदः। ततश्चैकैकस्य लिझार्थादिपदार्थस्य विवक्षायां नवेवोक्तयः, ९; ततो नपभिरष्टकं हत्वा द्वाभ्यां विभजेल्लब्धं षत्रिंशत् , ३६, द्वयोर्द्वयोविवक्षायामुक्तिभेदाः । ततो षदत्रिंशता सप्तकं हत्वा त्रिभिर्विवक्ष्य लब्धं चतुरशीतिः, ४४, त्रयाणां त्रयाणां विवक्षायामुक्तिभेदाः । एवमेव चतुर्णा षड्दिशं शतं, १२६, [प० २३.२ ]
पञ्चकादीनामपि विलोमेनैता एव संख्या । यथा पञ्चानां १२६; षण्णां ८९; सप्तानां ३६; अष्टानां ९; नवानामेकं १; सर्वेषां भेदसंख्या ५११ । अत्रार्थे सूत्रम् -
नवकायेकप्रान्तानङ्कानालिख्य ताडयेत् क्रमशः। पूर्वेण परं विभजेदेकायेकोत्तरैरकैः॥ छेदकसंख्यार्थानामुक्तिभिदस्ता भवन्ति सर्वेषाम् । एकद्धयाधुक्तीनां भेदमितिः सा भवेदेवम् ॥ इति । उदाहरणं वक्ष्यते ॥ छ । अथ 'शेषास्तु तत्पल्लवाः' (का० २५) इत्युक्तमतस्तानाह - कालत्रयमथ च क्त्वा-तुम्-शन्तृङभीक्ष्णतादयो लिङ्गम् । संख्या पुरुषा उक्तानुक्तत्वे भेदहेतवस्तेषाम् ॥ २८x पूर्व ये दश पदार्थाः कथितास्तेषु मध्ये क्रियायास्तावदभेदहेत]वः के ?, ते कालत्रयं तावत् वर्तमानातीतानागतसंज्ञः(ज्ञम् !)। एकैव क्रिया खपरिच्छिन्नकालजयसंबन्धात विधा भरति । तत्खरूपत्वाच्च तस्यास्तद्धर्मत्वमुक्तम् । यस्य हि यत्खरूपं स तस्य धर्म । उच्यते । यथामेरुष्णता । क्त्वा-तुमादयः प्रत्ययार्थाश्च क्रियोक्तिभेदहेतवः । कारकोकिसमेदहेतवश्च । यथा- लिङ्गं तावत् पुं-स्त्री-नपुंसकाख्यम् , संख्या पुरुषा उक्तानुक्तत्वे [५० २४.१ ] च, एत एव च संबन्धस्यामत्रितस्य च । अत एते पल्लवा इव । यथा वृक्षस्य मूलं भवति, तदुद्भूताश्च पल्लवा वृक्षं विस्तारयन्त्येवं धात्वर्थ-लिङ्गादियो मुलभूता दश पदायोः, तद्विस्तारकृतश्चैते धर्मा इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org