________________
कारिका २५-२७.] . उक्तिव्यक्तिधकरणम् । अयोतिभेदव्यक्तिर्विधीयते । तत्रादाधुक्तिभेदबीजमार्ययाऽऽहउक्तेश्च दशं पदार्था उत्पत्तौ मूलमत्र शेषास्तु ।' तत्पल्लवास्तदाधेयकृतभेदास्ते.च कालाद्याः॥ २५ ॥ प० २२-१] उक्तेश्रोत्पत्तौ- जन्मनि मूलं प्रधानं कारणं दशैव पदार्थाः । अत्र = लोकानां वाग्व्य- . वहारे । शब्दार्थों हि शब्देन प्रयुक्तेन प्रतिपाद्यते । स च दशप्रकार एक । लिङ्गार्थादिवक्ष्यमाणः । ये तु तदितरे, तेषामेव मूलभूतानां पदार्थानां पल्लवाः । तदाश्रयकृतभेदाःते च ते आश्रयाश्च । आश्रयो विषय उच्यते । कृतो' भेदो यैस्ते तथा । तदाश्रयेषु कृतभेदास्तदाश्रूयकृतभेदाः । अथवा, त एव दश पदार्थी आश्रयो विषयो येषाम् , तथा कृतो भेदो यैः । ततस्तदाश्रयाश्च ते कृतभेदाश्च तदाश्रयकृतभेदाः । तेषु दशसु पदार्थेषु ते. आश्रिताः, तेषामेव पदार्थानामुत्पादितोक्तिभेदाः । उक्तिभेदहेतवस्ते धर्माः । न पुनः पृथक् ।। प्रयोज्यमर्थान्तरमेकादशं किञ्चिदित्यर्थः । अतो दशैव पदार्था इति, नतु तदितरे। तर्हि के ते इत्याह-ते च कालायाः- इति । कालो लिङ्गं संख्या पुरुषा इत्यादयः ॥ छ । अथ तानेव पदार्थानाह - [प० २२-२] लिङ्गं क्रिया ततोऽपि च कारकषटकं ततश्च संवन्धः।
आमन्त्रणं च दशमं किन्त्वेतत् केवलं नोक्तौ ॥ २६ ॥. . प्रथमं तावल्लिङ्गम् - अव्यतिरिक्तो लिङ्गार्थः । द्वितीया क्रिया-धात्वर्थः । ततः कर्तृकर्म-करण-संप्रदान-अपादान-अधिकरणानि षट् । ततश्च संवन्धः । एवं नव । दशमं च आमत्रणम् । एते च लिङ्गार्थादयो नव पदार्थाः, केवला अपि विवक्षाविषया भवन्ति, प्रयुज्यन्ते च । आमन्त्रणं तु लिङ्गार्थसंबद्धमेव परं प्रयोगं याति, न केवलम् ; तस्य तदेकविषयत्वात् । आमनितो हि "किं भणसि ?' इत्यपेक्षते । तदुत्तरेण च वाक्यं समाप्यते,.अतो । नास्य केवलस्योक्तिः । अत उक्तम् - किन्त्वेतत् केवलं नोक्तौ- इति । अतो नवानामेष भेदा दर्शनीया जे भावः ॥ छ । अथोक्तिभेदोत्पत्तिक्रमं तत्संख्यां चाह - . एषां चैकद्वयादिक्रमेण लोकैर्विवक्षितानां स्युः। . प्रञ्चशतान्युक्तीनामेकादशसंयुतान्येव ॥ २७ ॥
एषां च लिनार्थादीनां पदार्थानां नवानां संबन्धपर्यन्तानां पञ्चशतान्युक्तीनां भवन्ति । कारखानि :- एकादशसंयुतान्येव-नैकयाप्युक्त्या हीनानि नाप्यधिकानीत्येवार्थः । कथं भूता पं० २११ नाम् ?-एकळ्यादिक्रमेण लोकैर्विवक्षितानाम् । तद्यथा- एककविवक्षायां नवैवोक्तयः, द्वयोर्द्वयोः पत्रिंशत्, त्रयाणां त्रयाणां विवक्षायां चतुरशीतिः । चतुर्ण चतुणों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org