________________
दामोदरविरचितं
[कारिका २४. एकं गहिकांनाणकं प्राप्तवान् । 'दुइ गदिाणे, बहुतु गदिआणे''-द्वे बहूनीति । एवमन्यत्रापि ॥ छ । '. 'स त्वमहं वा पुरुषाः । पुरुषपरिच्छेद उक्तैरेव स्पष्ट इत्यर्थः । तद्यथा- 'सो कर' इत्युक्तिर्लिङ्गत्रयेऽपि तुल्यैव । एवं द्वित्वादिष्वपि । तेन स करोति, सा करोति, तत् करोति । 'ते दुइ करति' - तौ द्वौ, ते वा, ते वा कुरुतः । 'ते बहुतु करति'-ते बहवः, ता बह्वयः तानि बहूनि । एवं 'तुं करसि' -वं करोषि; 'तुम्हे दुइ करहु' - युवां कुरुथः; 'तुम्हे बहुतु करहु' - यूयं बहवः [प० २१-१ ] कुरुथ । पुरुषाः, स्त्रियः, कुलानि वा । एवं, 'हौं करऔं (उं?)'- अहं कसेनि । 'अम्हे दुइ करहु'-आवां कुर्व: । 'अम्हे बहुतु करहु'- वरं बहवः कुर्मः । लिङ्गत्रयेऽपि तुल्यमतस्तत्परिच्छेदस्तद्विशेषोक्तरेवेति ॥ छ ॥ * । 'उक्तानुक्तत्वम्' इति । द्वितीयादिविभक्तिप्रतिपाद्यं यत् कारकं तदनुक्तम् । कारकविहितत्यादिप्रत्ययादिप्रतिपाद्यं क्रियासंबद्धलिङ्गार्थप्रतिपाद्यं चोक्तम् । ते च द्वे अपि तु उक्तित एव-अपभ्रंशभाषितादेव व्यक्ते = स्पष्टे प्रतीयेते । तद्यथा- 'छात्रु गाउं या' - छात्रो ग्राम गच्छति । अत्र हि कर्मत्वं द्वितीयया व्यज्यते, अतो अनुक्तम् । उक्तं कर्तृत्वं ति-प्रत्ययेन गमनसंबद्धेन लिङ्गार्थेन वा, अत उक्तम् । 'छाने गाउं जाइआ'-छात्रेण ग्रामो गम्यते । अत्र तु कर्तृत्वं तृतीयया प्रतिपाद्यते, अतोऽनुक्तम् । कर्मत्वं तु ते-प्रत्ययेन गतिसंबन्धेन लिङ्गार्थेन च, इत्यत उक्तम् । छात्रेण गम्यते, छात्रेण भूयत इत्यादि तु भावोक्तिः । अत्र च कर्तेत्रानुक्त इति । एवमन्यत्रापि ॥ छ । ___ 'संबन्धः स्वीकारात्' । स्वमात्मीयमुच्यते । अ-खं खं क्रियते स्वीकारः । लोकोक्तौ स्वीकारात्
संवन्धो व्यज्यते । यथा- 'राजाकर पुरुषु' -राज्ञः पुरुषः । तेहूं दूकर [ प० २१-२ ] । गाउं' -- तयोर्द्वयोमः । 'अम्हार वनु' - अस्माकं वनमित्यादि । छ ।
'विशेषणं तु व्यवच्छेदात्' इति । इतरसत्तानिवृत्तिहेतुर्विशेषणमुच्यते । तत्र लोकोक्तौ कुतोऽवगन्तव्यमित्याह – 'व्यवच्छेदात् । तद्यथा- 'सुकिलि गाइ लउडे हाकु -- गामभ्याज शुक्लां दण्डेन । रक्तादीनां व्यवच्छेदः । 'बम्हण इं पर निवंतेसु' - ब्राह्मणानेव परं निमन्त्रयिष्यसि । क्षत्रियादिपरिच्छेदः । 'पढेसु पर' - पठिष्यसि परम् । "क्रियान्तरव्यव. 5 च्छेदः। 'सोने ई पर दे' -सुवर्णमेव परं ददाति । द्रव्यान्तरव्यवच्छेदः । परमार्थतस्तु सर्वान्येव वाच्यानि व्यवच्छेदफलानि । केवलं विवक्षापेक्षा तत्प्रतीतिरतो न प्रकथ्यते । अर्थात् सिद्धार्था-इति ।
॥ इत्युक्तिव्यक्तिविवृतौ कारकोक्तिव्यक्तिव्याख्या ॥
1 कृयांतर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org