________________
कारिका. २३-२४.] . उक्तिव्यक्तिप्रकरणम् । माहे किंह'.- इत्याद्युक्तिः संप्रदानस्य, यस्मै कृते इत्यर्थे । तथा 'का किंह, क करें: [कस्य ?] अर्थे । 'कवणे कानें गा' इत्युक्तौ कस्मै गत इत्यादि संप्रदानम् । 'जाहां' इति । “जाहां वैस ताहां दीस' - यत्रोपविशति तत्र दृश्यते । 'जाही आछ, ताहां वांछ' - यत्रास्ते तत्र वाञ्छति ।' एकमधिकरणोक्तिः । 'जेई करि' इति । येन कृत्वेति' ईंधणे रांध, हंसिएं लय' – इन्धनेन राध्यति, दात्रेण लुनाति - इति करणोक्तिः। 'जो किछु कीज' इति । यत् किश्चित् .क्रियते ।। यदर्था क्रिया इत्यर्थः । यथा 'भातु रान्धा' - भक्तं राध्यते । “पोलि • पाच' - पोलिका पच्यते । एवं कर्मोक्तिः । 'जेई केहुं' इति । येन केनापि क्रियते, यः कश्चितं क्रियायां प्रेक्षापूर्वकारी प्रवर्चते, एतैः सहेत्यर्थः । एतेन कुतोऽपि, कस्मैचिदपि, .कस्मिन्नपि, केनापि, किमपि, कश्चिदपि करोतीति कारकाणां व्यापारभेदो लोकोक्त्या [प० २०-१] प्रतिपादितो भवति । तद् यथा- 'भूषहितौ ब्राह्मणु किंह थालिं करि'; एवं 'इंधणे भातु रान्ध ब्राह्मणु -10 बुभुक्षात आत्मने स्थापयामिन्धनेन भक्तं राध्यति ब्राह्मणः । एवमन्येऽपि ॥ छ॥
अथ लिङ्ग-संख्यादीनां कारकधर्माणां संबन्ध-विशेषणयोश्चोक्तिव्यक्ति कुर्वन्नार्याद्वयमाह -
पुं-स्त्री-नपुंसकत्वं शब्दानां लोकतः परिच्छेद्यम्। एकत्व-द्वित्व-बहुताः संख्यास्त्विह संख्यया ज्ञेया॥ २३ ॥ स त्वमहं वा पुरुषा उक्तानुक्तत्वमुक्तितो व्यक्तम् ।।
संबन्धः स्वीकाराद् विशेषणं तु व्यवच्छेदात् ॥ २४ ॥ 'पुं-स्त्री' इति । अपभ्रंशे ये शब्दाः प्रयुज्यन्ते तेषां पुं-स्त्री-नपुंसकत्वम् , लोकतो= लोकोक्तितः, परिच्छेद्यं = निश्चेतव्यम् । यथा 'मणुसु जेम' - मानुषो जिम्वति, भुङ्क्ते वा 1 मेहलि सोअ'- महेला खपिति । 'नपुंसक जाम' - नपुंसकं जायते । 'एक पुरुष'.- एकः पुरुषः। 20 'दुइ जोई'-द्वे जु(यु)वत्यौ । 'बहुतु वृन्द' - बहूनि वृन्दानि । अथवा लोकतस्तज्ज्ञलोकेमाः, लिङ्गस्य लोकास्यत्वात् । यस्य शब्दस्योक्तितो लिङ्गनिश्चयो न भवति तस्य, तज्ज्ञं लोक पृष्ट्वा. कार्य इत्यर्थः । सक्तिमात्रादेव तस्यासिद्धेः । तद्यथा- 'जाले [प० २०-२ ] डाह -ज्वालेन ज्वालया वा दह्यते । 'विमाण आव' - विमानं विमानो वा आगच्छति । 'मरद ऋतुं तड सु सोह नदीकर' - शरदि ऋतौ नद्यास्तटः तटं वा तटी वा सुष्ठु शोभते । एवमन्येऽपि ॥ छ॥ 25 . 'संख्यास्त्विह' इति । इहापभ्रंशे संख्या एकादिकाः । संख्ययैषोत्कीर्तितया ज्ञेया:], न. पुनरुपायान्तरेणेत्यर्थः । द्वित्व-बहुत्वयोस्तुल्योक्तिकत्वात् । तद्यथा-- 'एक जा' - एको याति, एका वां याति, एकं वा । 'दुइ अच्छति' द्वौ तिष्ठतः, द्वे वा तिष्ठतः, द्वे वा । 'बहुतु पूत भए': बलः पुत्रा बभूवुः । 'दुई बेटी भई' -द्वे बेट्टिके बभूवतुः । एक गदिआण पावेसि'-- ____ 1 किलेति। 2 सतत्वमहं। 3 मेहला। 4 संख्यालिह। 5 संक्षा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org