________________
दामोदरविरचितं . [कारिका २१-२२. शास्त्रं उपाध्यायः । अत्र च छात्रः प्रेयः, उपाध्यायी हेतुकर्ता । एवमन्यत्रापि । 'संबोध्य. इति । स च कर्ता संबोध्यः संबोधनीयो भव [ प० १८-२ ) त्यॉमन्त्रणविषयो भवतीत्यर्थः । क ? 'संमुखीकरणे = असंमुखः संमुखः क्रियते संमुखीकरणम् तत्र । असंमुखं कार्यान्तरासक्तं कंचिद् यदा कश्चित् संमुखं सावधानं कर्तुमिच्छति तदा तमामन्त्रयते यथा - 'हे गोपाल ! 'गां दुग्धं दुग्धि; हे छत्र ! शास्त्रं पठ' -- इत्यादि । कर्तेति च लिङ्गार्थोपलक्षणम् । यदुक्तम् - 'सिद्धस्माभिमुख्यकरणमामत्रणम्' इति ॥ छ । अथ कर्मादिलक्षणमाह- .
कर्म व्यापारफलम् , येनैतत् साध्यतेऽत्र तत् करणम् ।
यस्मात् तदपादानम् , यस्मै तत् संप्रदानं च ॥ २१ ॥ • व्यापारस्य यतू फलम् -यदुद्देशेन प्रेक्षावान् क्रियामारभते तत् कर्म । यथौदनं पचति सूपकार इत्यत्रौदनमिति । घटं करोति कुलाल इत्यत्र घटमिति । 'येनैतत् साध्यत' इति । एतत् कर्म येनोपादानेन कृत्वा साध्यते-क; साधकतमत्वेन यद् विवक्ष्यते तत्- करणम् । ययेन्धनेन पचति सूपकार इत्यत्रेन्धनेनेति । दात्रेण लुनाति कृषाण इत्यत्र दात्रेणेति । • 'यस्मात तदपादानम्' इति । यतः पृथग् भवति, यतो बिभेति वा यतो गृह्णाति वा तद15 पादानम् । विश्लेषेऽवधिरपादानमित्यर्थः । यथा [प० १९-१ ] 'गांव हुंत आव' -प्रामादागच्छति । 'वाघतौ डरा' - व्याघ्राद दरति । 'आँझा पास वीदा ले' - उपाध्यायादधीते । एवमन्यत्रापि । 'यस्मै तत संप्रदानं च' इति । यस्मै दातुमिच्छा भवति, यस्मै प्रीणनं करोति, यस्मै किमपि धारयते तत् संप्रदानम् । यदर्थ क्रियाफलं तदित्यर्थः । यथा- 'बाम्हण
गावि दे' - ब्राह्मणाय गां ददाति । 'ब्राह्मणहि लाड प्रीति जण' - ब्राह्मणाम्य रोचते १० मोदकः । 'वर्णिएं कर धणु धर' - वणिजे धनं धारयते । एवमन्यत्रापि ॥ छ ।
अथाधिकरणस्य लक्षणं कारकाणां लोकोक्तीश्चाह - अधिकरणं त्वाधारोऽथैषामुक्तिः पृथग् यथा लोके । जातौं, जेथु किंह, जाहां, जेई करि, जो किछु कीज; जेई केहुं । ___ कर्तृ-कर्मगता क्रिया यदाश्रिता स आधारः, तदेवाधिकरणमिति । यथा- 'सिंहासण 25 आछ राजा' - सिंहासने तिष्ठति राजा । स्थाल्यां पच्यत ओदन इति । एवमन्यत्रापि । 'अथैषाम्' इति । अथेदानीम् ; एषां कारकाणामुक्तिरपदंशे प्रयोगः। लोकव्यवहारे प्रत्येकं यथा| 'जातो' इति । यतः-तौ इति शब्दस्तदपा[दा]नं लोके । यथा- 'तुम्हतौ [प० १९-२ ] अम्हे' - युष्मत्तो वयम् । 'अम्हतौ तुम्हे' - अस्मत्तो यूयम् । 'तातौ अम्हे ईहां आछ' - ततो वयमिहामहे । 'अम्हतौ सौ वाढा' - अस्मत्तः स ववृधे । तथा- 'ताहांहुंत. 'आ' -तत " आर्गतः । 'ईहाँहुंत गा' - इतो गतः - इत्यादि । 'जेथु किंह' इति । जेथु किंह, जा किंह,
Jain Education International -
For Private & Personal Use Only
www.jainelibrary.org