________________
कारिका १९-२०.] . उक्तियक्तिप्रकरणम् । 'पुत्र इच्छ' - पुत्रमिच्छति = पुत्रीयति, पुत्रकावति । 'नाम्न आत्मेच्छायां यिन्'; काम्य च' । एवमन्येऽपि ॥ छ ।
॥ इत्युक्तिव्यक्तिविवृतौं क्रियोक्तिव्यिक्ति व्याख्या ॥ अथ कारकोक्तिव्यक्तिर्व्याख्यायते । तत्र कारकाणां साधारणं लक्षणमाह - तस्य निमित्तं यत् पुनरुक्तौ तत् कारकं हि लिङ्गोक्तम् । ।
व्यापारभेद[प० १७-२ भिन्नं ज्ञात्वा तज्ज्ञैः प्रयोज्यं स्यात् ॥ १९॥ • तच्छन्द, पूर्वोक्तपरामर्शी । पूर्व च 'व्यापारो धात्वर्थः' (का०८) इत्युक्तम् । अतस्तस्य व्यापारस्य निमित्तं = निष्पत्तौ कारणं यत् , उक्तौ = अपभ्रंशभाषिते । तत् कारकं ज्ञेयम् । हि यस्मात् । क्रियानिमित्तं कारकमुच्यते । तच्च लिंगोक्तम् । 'धातुविभक्तिवजमर्थवल्लिङ्गम्' । तेनोक्तम् , वृक्षादिशब्दवाच्यमित्यर्थः । क्रियाकारकसमुदायो वाच्य(क्य)म् । तत्र च क्रिया धातुप्रयोज्या । कारकं तु लिङ्गप्रयोज्यमिति भावः । ननु षट् कारकाणि 1 ततश्वानेककारके प्रयोगे कुत्र कतमत् प्रयोज्यमित्याह - व्यापारभेदभिन्नमिति । कारकाणि किल क्रियायां खखव्यापारेण व्याप्रियन्ते । ते च व्यापारास्तेषं भिन्नाः, तभेदाचं कारकाणां भेदः । लोहकार-चर्मकारादीनामिव । ततश्च खखव्यापारेण चिहितं ज्ञात्वा कादिकं परिच्छिद्य, तज्ज्ञैः= विदितकारकसङ्केतैः, प्रयोज्यं स्यात् संस्कृतभाषया वाच्यं भवेत् ॥ छ । • अथ व्यापारमेदं कथयत्कर्तुस्तावदाह -
यः कारकः स कर्त्ता प्रेयश्चेत् प्रेरकस्य हेतुत्वम् । ...सोनन्तो धातुः संबोध्यः संमुखीकरणे ॥ २०॥ .
लोकोक्तिप्रयुक्तानेका ५० १८-१ ]कारकमध्ये यः कारकः = क्रियां 'यः करोति स कर्ता' । बहुषु व्याप्रियमाणेषु यदुद्देशेन लोकैरयमेतत् करोति इति निर्दिश्यते स कर्तृवाच्य इत्यर्थः यथा 'काठहू स्थालिं ओदन सुआर पच' – काष्ठैः स्थाल्यामोदनं सूपकारः पचति- इत्यत्र सूपकारः । 'खेतं हंसिएं व्रीहिं लवितिं कमारें' - क्षेत्रे दात्रेण बीहयो लूयन्ते कर्मकरेण' इत्यत्र कर्मकरः । इत्यादि । 'प्रेयश्चेत्' इति । स च कर्ता द्विविधः स्वतन्त्रः, परतत्रश्च । खंतत्रो दर्शितः । यस्तु कर्ता अन्येन प्रेर्यते स प्रेयों भवति । यदि च प्रेयः, तदा तस्य यः प्रेरकस्तस्य हेतुत्वं भवति । 'कारयति यः स हेतुश्च' इति वचनात् । यत्र च हेतु-: कर्तुः प्रयोगस्तत्र वाच्ये धातुरिनन्तः प्रयुज्यते । 'धातोश्च हेतौ' इत्युक्त इन्-प्रत्ययोऽन्ते यस्य । यथा- 'दुहाव गाइ दूध गुआले गोसांवि' - दोहयति गां दुग्धं गोपालेन गोखामी । भत्र गोपाल: प्रेर्यः । गोखामी हेतुका । 'पढाव छात्रहि शास्त्र. ओझा' - पाठयति छ 1मेदे। 2 कर्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org