________________
5
10
15
20
दामोदरविरचितं
'संस्कृतं तु 'सर्वत्रैकं । तथा तत् फल्गुखरूपमनुपादेयमव्यवस्थितम् एतत् तु सारभूतं दिव्यखरू - पम् । तथा तदनेकं प्राकृत - अपभ्रंश - पैशाचिका दिभेदभिन्नम्। एतत् पुनरेकस्वरूपमेवेत्यर्थः ॥ छ ॥ अथ * श्रोतृप्रवृत्त्यङ्गं शास्त्रप्रयोजनमाह
स्यादित्यादी कृत्वा श्रुत्वा लिङ्गानुशासनं किञ्चित् । उक्तिव्यक्ति बुद्धा बालैरपि संस्कृतं क्रियते ॥ २॥
2
• स्यादिश्च त्यादिश्च ते वृत्वा ' स्यादि - त्या दिसञ्ज्ञयोबलव्युत्पत्तिशास्त्रयो रूपसिद्धिं कृत्वेत्यर्थः । किञ्चिच्चैकतमं लिङ्गानुशासनं पुं- स्त्री- नपुंसकत्वं शब्दानां येन शास्त्रेणानुशास्यते शिक्ष्यते [ त ] सर्ववर्मकृतमन्यद्वा श्रुत्वा गुरोरधिगभ्य । एतावत्येव संदशास्त्राभ्यासापेक्षा प्रायेणात्रेत्यर्थः । एतावत्यां च सामग्र्यां सत्याम्, उक्तिव्यक्तिमुक्तिव्यक्तिसञ्ज्ञमिममन्वयोत्पत्त्युपायं _ [प० ६-१] बुद्धा = सम्यगवगम्य बालैरपि = अप्रगल्भैरपि किमुच्यते प्रगल्भैः, संस्कृतं क्रियते = संस्कृतभाषया जल्प्यत इत्यर्थः ॥ छ ॥
[ कारिका २-४.
ननु केयमुक्तिर्नामेत्याह
या वक् किमपि भवेदिच्छा सा कीर्तिता विवक्षेति ।
तदनु च तदनुगतं यद् भाषितमिह तां वदन्त्युक्तिम् ॥ ३ ॥
-
किमपि जगति व्यवह्रियमाणं वस्तु वक्तुं = अभिधातुं या इच्छा सा विवक्षा । तदनु विवक्षोत्पत्तेरनन्तरं तदनुगतमभीष्टविषयाश्रयं यद् भाषितं = भाषणं वाग्व्यापारः, तां वदन्त्युक्तिं = तस्मिन्नर्थे प्रयुञ्जते अत्रोक्तिशब्द छात्रा इत्यर्थः ।
सा चोक्तिः किमर्थं क्रियत इत्याह
सा च ' खपरविवक्षानुगताऽऽकांक्षानिवृत्तिमुत्पाद्य । लोकानां व्यवहारे हेतुः स्यादिन्द्रियाणीव ॥ ४ ॥
یا
Jain Education International
सा चोक्तिर्द्विविधा लोकव्यवहारे दृश्यते । स्वविवक्षानुगता, परविवक्ष नुगता च । यतो ते कश्चिदेक एव, तत्र किं लोकव्यवहारार्थेन वाग्व्यापारेण, प्रबोध्याभावात् । अनेकजन समवाये च यो वाग्व्यापारो व्यवहारनिमित्तः, स उक्ति-प्रत्युक्तिखरूप एव । यत एकः खाभिमतं प्रकटयत्यपरस्तदनुगतमुत्तरं ददाति । एवं हि व्यवहारः [ ५०५-२ ] 25 प्रवर्त्तते । तयोश्च ये उक्ति-प्रत्युक्ती ते ख- परविवक्षानुगते एवार्थात् । अन्यथा व्यवहारासंभवःत् । अत उक्तं सा च स्वपरविवक्षानुगतेति । आकांक्षानिवृत्तिमुत्पाद्येति - उक्त्या प्रत्युक्त्या वा परेण कथ्यमानखाभिप्रायमवगन्तुं या इच्छा साऽऽकांक्षा, तस्याश्च निवृत्तिः
•
1 ° शंस्कृ° : 2 शर्व। 3 °स्वासार° 4 श्रोत्रि 5 °स्रयं । 6 °स्वपरि° । 7 कान्ते कचिदेकान्ते कश्चिदे° ।
For Private & Personal Use Only
www.jainelibrary.org