________________
पण्डितवरदामोदरविरचितं उक्तिव्यक्तिप्रकरणम् ।
[ स्वोपज्ञव्याख्यासहितम् ]
.
॥ ॐ नमः सर्वविदे ॥ गणानां नायकं नत्वां 'हेरम्ब ममितद्युतिम् । उक्तिव्यक्ती विधास्यामो विवृतिं बाललालिकाम् ॥ तत्रादौ इष्टदेवतानमस्कारव्याजेन विवक्षितवस्तुखरूपं निर्दिशन्नाह' - नानाप्रपञ्चरचना बहिष्कृतं' सारभूतमेकं यत् । नत्वा तत्त्वं वाचामुक्तिव्यक्ति विधास्यामः ॥ १ ॥ -
वाचां तत्त्वं = वाग्ब्रह्म नत्वा । कीदृशं तत् । नाना = बहुप्रकारा थेयं संसारप्रपञ्चस्य [१० ४-१ ] रचना = सृष्टिप्रकारस्ततो बहिष्कृतं = पृथग्भूतं वस्त्वन्तरमित्यर्थः । यतः सारभूतं = सत्यं विद्यास्वरूपमित्यर्थः । एकं = न तद् द्वितीयमस्तीति' हि ब्रह्मविदः । संसारप्रपञ्चस्त्वयमविद्याखरूपोऽसत्यः स्वप्नप्रायो बहुभेदश्च । अतः परं तत्त्वं नत्वा उक्तेः = 1 भाषितस्य, व्यक्तिं = प्रकटीकरणं विधास्यामः - अपभ्रंशभाषाछन्नां संस्कृतभाषां प्रकाशयिष्यामइत्यर्थेः ।
अर्थान्तरमपि यथा - उक्तिव्यक्तिम् - उक्तिव्यक्तिखरूपं वाचां तत्त्वं नत्वा; उक्तिव्यक्तिमेव विधास्याम इति सम्बन्धः । व्यक्तिशब्दोऽयं भावसाधनोऽपि तद्विशिष्ट' संस्कृत शब्दविषयोऽत्र द्रष्टव्यः । उक्तावपभ्रंशभाषिते व्यक्तीकृतं संस्कृतं नत्वा तदेव करिष्याम इत्यर्थः । । तश्च तत्त्वमिह नानाप्रपञ्चरचना बहिष्कृतं करणीयम् । नानाप्रकारा येयं प्रपञ्च रचना संस्कृतशब्दभिक्षार्थं अनेकव्याकरणप्रक्रियाघटना तद्बहिष्कृतं तन्निरपेक्षम् । चिराभ्यासप्रयाससाध्यं' शब्दशास्त्रं गृह एवोत्सार्य [ १०५ - १ ] वार्त्तामात्रकथनेनेत्यर्थः । अत एवं सारभूतं साध्यस्वरूपम् । शब्दशास्त्राणां प्रपञ्चस्यापि तदर्थत्वात् । तथा एकं त्रैलोक्थेऽपि संस्कृतस्यैकत्वात् । अथवा नानाप्रकारा प्रतिदेशं विभिन्ना येयमपभ्रंशवाग्रचना पामराणां भाषितभेदास्तद्बहिष्कृतं "ततोऽन्यादृशम् । तद्धि " मूर्ख प्रलपितं प्रतिदेशं नाना !
•
मूलादर्श स्थिताः पाठाः - 1 देहरम् 5 °शाधनो° । 6 ̊शंस्कृत ० । 7: शिष्यार्थं
Jain Education International
·
।
2 °निर्द्दिशं नाह° । 3 बहिः क्रतं । 4 'मस्तिति । । 8 ° क्रितं' 9 'शाध्यं । 10 ° तत्रो' 11 'मूर्ष' ।
For Private & Personal Use Only
www.jainelibrary.org