________________
कारिका ५-६.] . उक्तिव्यक्तिप्रकरणम् । मराभिप्राये अवगते भवति । उक्ति-प्रत्युक्त्योश्च विधिस्तदर्थ एव । यावच्चाकांक्षानिवृत्तिर्नोत्पद्यते तावत् वक्ता प्रतिवक्ता वा पुनः पुनः पृच्छति; यथा- किं वंदसीति; •यावदाकांक्षांनिवृत्तिर्भवति । पृष्टो ह्याकांक्षानिवृत्तिपर्यन्तं बोधयति, इतरथा व्यवहाराभावात् । एवं चाकांक्षा-. निवृत्तिमुत्पाद्य लोकानां व्यक्हारे प्रवर्तन-निवर्तनादिखरूपे हेतुर्निमित्तं स्यात् । तया विना तदभावात् । अतश्चेन्द्रियाणीव । यथा चक्षुरादीनि बुद्धीन्द्रियाणि' स्रक्चन्दनादिष्वहि- 5 कण्टकादिषु वा विषयेषु खखव्यापारण निश्चित ज्ञानमुत्पाद्य प्रवृत्तौ निवृत्तौ वा कारणं •भवति एवं वागिन्द्रियमपि इत्यर्थः ॥ छ । . एवमुक्तेः स्वरूपमुक्त्वा अमुमेवार्थ स्पष्टयन्नाह' -
तंलात् तया प्रबोधो यावत्या यादृशा च सर्वस्य । . भवति व्यवहारवि[५०६-१] धौ लोकैः सा तादृशी क्रियते ॥५॥ ॥
यस्मादेवं तसाद्धेतोः, तया उक्त्या प्रबोधः = आकांक्षानिवृत्तिः, यावा एकानेकपदात्मिकया, सकृदसकृदुच्चारितया वा, यादृशा च प्रसिद्धशब्दात्मिकया, व्यवहितसम्बन्धादिदोषरहितया वा, सस्य व्युत्पन्नाव्युत्पन्नस्य, व्यवहारविधाविति कर्तव्यतानुष्ठाने, लोकैत्रैलोक्यवर्तिभिः, तावती तादृशी च क्रियते । अन्यथा व्यवहारासिद्धेः। अत एवोक्तम् -
'इदमन्धं तमः कृत्लं जायते भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥' इति । 'एतेन चोक्तिरेव भगवती संसारस्थितिमूलमिति प्रतिपादितं भवति ॥ छ ।
अथोक्तिव्यक्ति बुद्ध्वा बालैरपि संस्कृतं क्रियत इति यदुक्तं तद् द्रढयन्नाह - ... देशे देशे लोको वक्ति गिरा भ्रष्टया यया किंचित् ।.
सा तत्रैव हि संस्कृतरचिता वाच्यत्वमायाति ॥६॥. . प्रतिदेशभिन्ना येयं सर्वजनसाधारणा भाषा गावी गोणी प्रभृतिका सोऽपभ्रंश उच्यते। सा" च संस्कृतभाषामुच्छिद्य प्रवृत्ता । तुरुष्कदेशे द्विजातिजातिं तुरुष्कजातिरिव । ततो देशे • देशे प्रतिविषयं लोकः पामरजनो यया यया गिराऽपभ्रष्टया यत् किंचिदभिधेयं वस्तु वक्ति [प० ६२ ] व्यवहरति साऽपभ्रंशभाषा, तत्रैवार्थे संस्कृतरचिता संस्कृतशब्दवाच्येन खरूषण प्रयुक्ता प्रयोगं नीता, वाच्यत्वमायाति । यथा वक्तुमिष्टं स्यात् तादृशी पंदसन्त- 25 तिर्वाच्यमिति लक्षणेन व्याप्यते । यदि वा वाच्यत्वमायात्यभिधेयस्वं प्रतिपद्यते उपादेया भवतीत्यर्थः । यां संस्कृतभाषामुच्छिद्य याऽपभ्रंशभाषा प्रवृत्ता तस्याः स्थाने यदा सैव संस्कृतभाषा पुनः परिवर्त्य प्रयुज्यते तदाऽपभ्रंशभाषैव दिव्यत्वं प्रामोति । पतिता ब्राह्मणी कृतीयश्चिन्ता ब्राह्मणीत्वमिति चेति ॥ छ । 1 बुद्धिंद्रि । 2 स्पष्टयं नाह ! 8 'कृयते'। 4 शो। 5 शा च शंस्कृ' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org