________________
४
20
दामोदरविरचितं
एवं वस्तुस्वरूपमुक्त्वा प्रस्तुते योजयन्नाह '
-
तत्र च वक्तृविवक्षावशाद् गिरः सुपू- तिङन्तपदसंज्ञाः । संमिश्रा जायन्ते तासां चिह्नं पृथगू वक्ष्ये ॥ ७ ॥
•
तत्र चापभ्रंशे वक्तृविवक्षावशाद् वक्तुः = प्रयोक्तुः किंचिदभिधेयं वस्तु व्यवहर्तुकामस्य · या विवक्षा तद्वाचकं शब्दं वक्तुमिच्छा द्वशात्तदधीनत्वम् । गिरः - अपभ्रष्टाः शब्दाः, सुप्-तिङन्तपदसंज्ञाः = स्याद्यन्त-त्याद्यन्तपदवाच्याः, संमिश्राः = परस्परानुविद्धा जत्यन्ते प्रयुज्यन्ते । तासां गिरां चिह्नं लक्षणं पृथक् प्रत्येकं वक्ष्ये कथयिष्ये (यामि ?) । एतेनैतदुक्तं भवति [ प० ७-१ ] यान्येव संस्कृतभाषायां सुप्-तिङन्तानि पदानि तान्येवापभ्रंशेऽपि न चार्थ मनागपि भेदः । केवलमक्षरेषु विपर्ययः । तद्वशाच्च कृतवेषा नटीवापभ्रंशच्छन्नां संस्कृतभाषा न " लक्ष्यते । अक्षरान्यथात्वे हि कतमस्यापभ्रंशस्य स्थाने कतमत्यं संस्कृतं पदमिति निश्चयः अकृतसंकेतस्याशक्यानुष्ठान एव । तस्मादपभ्रष्टत्वेऽपि यः संस्कृतपदस्याव्यभिचारी धर्मः स कथ्यत इत्यर्थः । तेन च ज्ञातेन येऽपभ्रंशशब्दा येषां क्रियाकारकसम्बन्धवाचिनां संस्कृतशब्दानां स्थाने जातास्तेषां स्थाने तत्प्रयोगे संस्कृतं प्रवर्तत एव । दृश्यते हि द्रविडदेश जातस्य मध्यदेशे वसतस्तद्भाषाज्ञानं संकेतग्रहणे । दृश्यते च बालानां 'खखदेशभाषाज्ञानमप्रयत्नत एव । 15 अतोऽपभ्रंशवेिदः ' संकेतग्रहणात् का नाम संस्कृतज्ञानेऽनुपपत्तिः । तस्मादुक्तिव्यक्ति विधास्याम इति ॥ छ ॥
अथ तामेवोपक्रममाणः क्रियायास्तावदाह -
व्यापारो धात्वर्थः कर्तृगतोऽकर्मकस्य भिन्नस्तु | · इतरस्योक्तिस्पष्टत्रिकालविषयः प्रयोज्यः स्यात् ॥
व्यापार इति भावसाधनं देहाभिधस्येन्द्रियसमुदायस्य चेष्टोच्यते [ प ० ७ २ ] । स चेदपशे' प्रयुक्तो दृश्यते तदा स धात्वर्थो ज्ञेयः । तस्य स्थाने क्रियापदं प्रयोज्यमित्यर्थः । तच्च त्याद्यन्तं कृदन्तं वा विवक्षावशादेव । स च व्यापारः अचेतनकर्तृको भवतु - सचेतन कर्तृको वा भवतु । यत्र कर्तृगतः प्रतीयते स धातुरकर्मको ज्ञेयः । यस्य भिन्न कर्तुरर्थान्तर गतः स इतरस्य सककस्य; अर्थात् कर्मद्वयगतो द्विकर्म[क]स्येति । तथोक्तिस्पष्टा ये त्रयः काला 25 वर्त्तमानातीतानागतास्तद्विषयस्तत्सम्बद्धः ' प्रयोज्यः स्यात् । एतदुक्तं [ भवति ] | लोकः व्यापारार्थं शब्दमेकतरकालाश्रितमेव परं प्रयुङ्क्ते न तन्निरपेक्षम्, क्रियायाः कालप्रतिबद्धत्वात् । तेच कालास्तयैवोक्त्या तथा कथ्यन्ते यथा बालोऽपि जानाति । यत्कालविषया च लोकोक्तिस्तद्विहितप्रत्ययान्तेन तदर्थेन धातुना स व्यापारः प्रयोक्तव्यो भवेदर्थादेव । वक्ष्यमा - णौदाहरणैर्व्यक्तिः iÎ छ ॥
1 योजय नाह । 2 श । 3 सबंध | 4 जातस्य । 5 श्वश्व। 6 से 7 विषयस्तशंबद्धः ।
Jain Education International
[ कारिका ७-८.
For Private & Personal Use Only
www.jainelibrary.org