________________
कारिका ९.३ . उक्तिव्यक्तिप्रकरणम् । • अथ व्यापारो धात्वर्थ इत्युक्तमतोऽमुममपत्रेशभाषयोदाहरणनिष्ठं कृत्वा स्पष्टीकुर्वन्नाह - .'आर्थि' इति कर्तृनिष्ठा 'कीज' इति साध्यगा क्रिया तस्मात् ।
अस्ति-करोती धातूं अकर्मक-सका प० ८-१र्मका एवम् ॥९॥ ___ अपभ्रंशभाषमा लोको वदति यथा- 'धर्म आथि' 'धर्म कीज' - एवं चोक्ते श्रोतुलॊकस्य बोधो यथा-धर्मः अस्ति, धर्मः क्रियत - इति । अत 'आथि' 'कीज' इति व्यापारवाचकौ शब्दौ क्रियापदशब्देनोच्यते । प्रथमवाक्ये च 'धर्म' इति कर्तृपदम् , 'अस्ती'ति क्रिया च तद्गता प्रतीयते । तथाहि - धर्मः अस्ति, भवति, विद्यते, सत्तावान् , अभावप्रवृत्त इत्यादिपर्यायाः । द्वितीये च वाक्ये धर्मः साध्यत्वेन विवक्षितः, क्रियत इति करणक्रिया च तद्गता प्रतीयते । धर्मः क्रियते, उत्पाद्यते, अविद्यमानः साध्यते, आविष्क्रियते वेत्यादिपर्यायाः । यत एवं तस्माद्धेतोरस्ति-करोती धातू । अस भुवि, डुकृञ करणे । एतौ यथासंख्यमकर्मक-सकर्मको । अयादीनां यवलोपः पदान्त इति वलोपे प्रयोगः । पक्षे चाकर्मक-सकर्मका एवमिति बहुवचनान्तमपि योज्यम् , काकाक्षिगोलकन्यायेन । अपरेऽपि चाकमेक-सकर्मका धातव एवमनेनैवास्ति-करोतिक्रमेण बोद्धव्या इत्यर्थः । यत्र चार्थद्वयगतः स द्विकर्मको यथा- 'दुह गावि द(? दू० )धु गुआल' -दोग्धि गा दुग्धं गोपालकः। दुह प्रफूरणे । 'याच कांबल [प० ८-२] यजमान कापडि' - याचते कम्बलं यजमानं कार्पटिक इत्यादि । अकर्मक-सकर्मकयोश्चोक्तावयं विशेषो यदात्मनेपदानि' भावकर्मणोरित्यनेन यदात्मनेपदं तदकर्मकस्य प्रयोगे भावोक्तावेव भवति । यथा- भूयते धर्मेण, स्थीयते निरुधमेन, शय्यते सालस्येनेत्यादि । सकर्मकस्य तु भावे कर्मणि च । यथा- ग्रामो गम्यते, धर्मः क्रियतू इत्यादि । यथा-दुह्यते गौः दुग्धं गोपालेन, याच्यते कम्बलं यजमानः कार्पटिकेनेत्यादि । अविवक्षितकर्मकाच सकर्मकादपि भावेऽपि । यथा - ..
दीयतां गृह्यतां तावत्, खाद्यतां पीयतां जनैः। .
जीवात्मा सुस्थितो या[व]त्, क तस्यावसरः पुनः ॥ इत्यादि। अपरेष्वपि कर्मक-सकर्मकप्रयोगाः कियन्तोऽपि दयन्ते । यथा- 'गींग न्हाए धर्म हो, पापु जा' - गङ्गायां स्नाते धर्मो भवति, पापं याति । 'धर्मे बाढत पापु आहट' - धर्म वर्द्धमाने पापमवघटते । 'धम्में सव व्यवहार पअट' - धर्मेण सर्वो व्यवहारः प्रवर्तितः । 'पृथिवी धर' पृथ्वी धरति, 'मेहं वरिस' मेघो वर्षतीत्यादयोऽचेतनव्यापाराः प्रयोज्याः । सचेतनव्यापारा [ प० ९-१] स्त्विन्द्रियनिवां एव । इन्द्रियेषु च रूप-रस-गन्ध-स्पर्श-शब्दानी ग्रहणं नेत्र-रसना-प्राण-त्वक्-श्रोत्राणां 'बुद्धीन्द्रियाणां व्यापारः । भाषण-आदानचक्रम-उत्सर्गआनन्दाच वाक्-पाणि-पाद-पायु-उपस्थानाम् । उभयाधिष्ठातृ मनः स्मरणादिव्यापारम् । एते
1 प्रवानि। 2 जाति। 3 प्रवर्तिते। 4 यिंद्रि
5 बुद्धिंद्रि। 6 °व्यारम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org