________________
६
दामोदरविरचितं
[ कारिका ९. च व्यापाराः प्रत्येकमपभ्रंशेन लोकैः प्रयुज्यन्ते । तेषु च तदर्थो धातवः प्रयोज्या इटि भावः । अत उक्तम् -- ‘व्यापारो धात्वर्थ' इति । तच यथा - 'आंखि देख' - अक्ष्णा -वीक्षते, अक्षिभ्यां वा । ईक्ष दर्शनाह्वानयो: ( ? ) । चक्षुषा वा, नेत्रेण वा, लोचनेन वा, दृशा वेत्यादि । एवं पश्यति, हर्शिक् प्रेक्षपे । आलोकर्ते, लोक तोचि (लोच) दर्शने । 'निहाल' - निभालयते, भल परिभाषणे । एवमन्येऽपि त्याद्यन्तेन । कृदन्तेन त्वक्तमोर्यथा - 'आंख देखत आछ' – अक्ष्णा नीक्षमाणु आस्ते, पुरुषश्चेत् 1 स्त्री तु वीक्षमाणा । कुलं तु वीक्षमाणम् । एवं पश्यन् पश्यन्ती, पश्यत् । आलोकयन्, आलोकयन्ती, आलोकयत् । . एवमन्यत्रापि ज्ञेयम् ॥ छ ॥
"
“ “ जीमें चाख – जिह्वया खादति । खाद्य भक्षणे, अथवा भक्ष अदने । चाख चौख एते तु " देशिपदे । रशनया वा [प०९-२] लोलया वा, आखादयति वा, खदते वा । ष्वद खाद आखादने । एवं - 'जीमें चाखत आछ' - जिह्वया खादन्नास्ते । स्त्री तु खादन्ती, कुलं खादत् । एवं भक्षयन्, भक्षयन्ती, भक्षयदिति ।
5
w
'नार्के सूंघ ' - नासिकया सिंघति । सिघि आघ्राणे । 'सूंघत आछ' - सिंघन्नास्ते । स्त्री तु सिंघन्ती, कुलं सिंघत् । घ्राणेंन वा । अथवा जिघ्रति । जिघ्रन्, जिघ्रन्ती, जिघ्रत् । त्रा गंधोपादाने ।,
-'हार्थे छुअ' – हस्तेन छुपति, हस्ताभ्यां वा । स्पृशति वा । छुपन्नास्ते, छुपन्ती वा, छुपद्वा । स्पृशन्नास्ते, स्पृशन्ती, स्पृशद्वा । छुप स्पृश संस्पर्शे । 'अंकवालि दे' - अंकपालिं ददाति, आलिङ्गति वा । रिगि लिगि गत्यर्थाः । उपसर्गादर्थान्तरम् । खजते वा । ष्वजु परिष्वङ्गे । अवगुंडति वा । गुडि मडि वेष्ट वेष्टने । 'मुहं चूंब' – मुखे चुंबति । चुबि वक्रसंयोगे । 'सेजं ' ऑलर' - शय्यायामवललति । लल ईप्सायाम् । 'कोलं ले' – कोडे गृह्णाति । ग्रह उपादाने । 'वैसार' - उपवेशयति । 'आंकम घर' - आक्रमणेन धरति । धृ धारणे । 'कांध ले' – स्कन्धे गृह्णाति वहति वा । ' पीठिं चडाव' - पृष्ठे चढापयति । 'गींम धरि [ ५०१०- १] पेल' - ग्रीवायां धृत्वा प्रेख्यति । इऌ प्रेरणे । 'गलें चाप' - गले चपति । चप सान्त्वने । “चूतडं तलं देइ वइस' – स्फिजोस्तले दत्त्वोपविशति । विश प्रवेशने । एवमन्येऽपि त्वगिन्द्रियव्यापाराः प्रयोज्याः । तस्य सर्वदेहव्यापित्वात् । हस्तेन स्पृशतीत्यादिषु च हस्तादिगतं त्वगिन्द्रियं हस्तादिशब्देनोच्यते । तस्यैव स्पर्शग्रहणे अधिकारात् । पादघातादयश्च स्पर्शप्रकारा एव । यदुक्तम् - "स्पृशन्नपि गजो हन्ती" ति ॥ छ ॥
V
'काने सुण' – कर्णेन शृणोति, कर्णाभ्यां वा । शृण्वन्नास्ते, शृण्वती, शृण्वद्वा । श्रु श्रवणे । श्रवणेन वा श्रोत्रेण वा । आकर्णयति वा । छिद्र कर्णवेधे । अवधारयति वा । • धृञ इति रूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org