________________
कारिका ९.] . उक्तिव्यक्तिप्रकरणम् । . एवमन्येऽपि बुद्धीन्द्रियाणां व्यापाराः प्रयोज्याः । एषु च प्रयोगेषु चक्षुरादीनां प्रयोगा लोके क्रियन्ते तेनं दर्शिताः । अन्यथा तु निरर्थका एवं दर्शनादीनामनन्यविषयत्वात् ।। छ ।
अथ कर्मेन्द्रियाणाम् , न्यथा- 'बोलें बोले -वाची वदति। वारिन्द्रियेणेत्यर्थः । 'बोल बोल' याचं वदति । 'बोलत आछ' -वदन्नास्ते, स्त्री तु वदन्ती, [प०१०-२ ] कुलं वदत् । अथवा बोलं बोलतीत्येवमेव प्रयोज्यम् । बुल निमज्जन इत्यस्यानेकार्थत्वात् । एवं 'संभास' - संभाषते ।। 'संभासत' आछ' - संभाषमाण आस्ते, स्त्री तु संभाषमाणा, कुलं संभाषमाणम् । भाष 'व्यक्तायां .वाचि । 'आवर्ज' -- आवर्जति । वृजी वर्जने । 'आश्वास' - आश्वासयति । श्वस्' पाणने । 'चुचुकार' -चुटचुटकारयति; अव्यक्तानुकरणम् । तथा 'हकार' - अकारयति । 'वि'-शनयति । टुक्षु रुक्षु शब्दे । गोहराव' - देशिपदम् ; आयतीत्यर्थः । ह्ञ स्पर्धयां वाचिच] । 'वच' - वक्ति। 'वचाव' - वाचयति।वच परिभाषणे । 'पढ'"-पठति । पठ व्यक्तायां । वाचि । 'गुण' - गुणति । कुण गुण आमन्त्रणे । एवमन्येऽपि वाग्व्यापाराः प्रयोज्याः ॥ छ ।
'हाथें ले' - हस्तेन गृह्णाति, हस्ताभ्यां वा । यदि वा लाति । रा ला आदानेऽपि लोके । 'हाथं ले हस्ते गृहाति, आदत्ते वा । डुदाञ दाने । 'दूं हाथें खजुहाव' -द्वाभ्यां हस्ताभ्यां खर्जति । खर्ज मार्जने । 'करोव' - कोरयति । कुर शब्दे, अनेकार्थत्वातू । 'कुंदुआव' : कंदूयते । कंदूय सौत्रो धातुः । 'मींड' - मीडति । मील निमेमणे । एवमन्येऽपि । हस्त प० ११-१] व्यापाराः प्रयोज्याः ॥ छ ।
. पायं जा' - पादेन याति । 'जान्त आछ' - यानास्ते, स्त्री तु यान्ती, कुलं यात् । यदि वा गच्छति । गच्छन् , गच्छन्ती, गच्छत् । व्रजति । व्रजन् , वजन्ती, व्रजत् । गम सप्तृ गतौ । वज व्रज गतौ । चरणेन वा अंहिणा वा । तथा 'धाव' - धावति । धात्रु गति-शुद्धोः । अटति । अट पट गतौ । प्रतिष्ठते । स्था गतिनिवृत्तौ; उपसर्गादर्थान्तरे । । भ्रमति । प्रमु चलने । चलति । चल प्रतिष्ठायाम् । एवमन्येऽपि पादव्यापाराः प्रयोज्याः॥छ॥ __'हग' हदने । हद पुरीपोत्सर्गे । 'हगत आछ' – हदमान आस्ते, स्त्रियां हदमाना, कुलं हदमानम्। 'रेच' -रेचति, रेचयति वा । रिच वियोजन-संपर्चनयोः । रिचिर विरेचने, अस्य तु णिक्ति । 'पाद' - पईते । पर्द कुत्सिते शब्दे । 'वाउ सुर' -वानः सरति । सृ गतौ । एवमन्येऽपि पायुव्यापाराः प्रयोज्याः ॥ छ ॥
जह' जहति । जभु मिथुने । 'गिह' - गृह्णाति, घिण्णते वा । घिणि घुणि-ग्रहणे । 'रंव' - रमते। रमु क्रीडायाम् । क्रीडाप्रकारो हि मैथुनम् । 'मूत' - मूत्रयति । मूत्र प्रसवणे। 'मूतत •आछ' – मूत्रयन्नास्ते, [प० ११-२] स्त्री तु मूत्रयन्ती, कुलं मूत्रयत् । मेहति वा । मिह सेचने । एवमन्येऽप्युपस्थव्यापाराः प्रयोज्याः ॥ छ ।
इति कर्मेन्द्रिवव्यापारा अपरेऽपि द्रष्टव्याः ॥ * ॥ 1 शंभाशत। 2 वेश् । 3 निमेखणे। 4 अपरेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org