Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 132
________________ कारिका १३.] . उक्तिव्यक्तिप्रकरणम् । कर, सुंघ:-सिंह(शिंघ)ति । आलिंगन कर, आलिंग'-आलिङ्गति । आखांदन कर, आस्वाद'-आखादयति । 'ग्रहण कर, ले'-गृह्णाति । 'त्याग कर, छाड'-त्यजति । एवमन्येऽपि वर्तमानोक्तौ प्रयोगी द्रष्टव्याः ॥ छ । • 'बस्तन्यवतमीवा' इति । वत्र तु 'किएसि' इत्युकिस्तत्रातीतः कालः । तत्र च शस्तनीअद्यतनी-परोक्षा-क्रियातिपत्तयश्चतस्रोऽपि प्रयोज्याः । 'सेनातीते' इत्यधिकारे :परोक्षा'; 5 'भूतकरणवत्यश्च' । इत्येताभ्यामित्यर्थः । तद्यथा-'पाक किएसि, पएसि' - अत्रार्थे - अपचत्, 'अपाक्षीत् , पपाच, अपक्ष्यत् - इत्येषामेकः प्रयोज्यः । 'भवन किएसि, भा' - अभवत् , अभूत् , बभूव, अभविष्यत् -इत्येषामेकः प्रयोज्यः । 'भोजन किएसि, जेंवेसि' [५० १३-१] अभुक्त, अभुक्त, बुभुजे, अभीक्ष्यत् – इत्येषामेकः प्रयोज्यः । 'किएसि'-अकरोत् , अकार्षीत् , चकार, अकरिष्यत् । 'दर्शन किएसि, दीवेसि' : अपश्यत् , अद्राक्षीत् , ददर्श । अद्रक्ष्यत् । 'नअन किएसि, निएसि'- अनयत् , अनैषीत् , निनाय, अनेष्यत् । एवमन्येऽप्यतीतोक्तिव्यापाराः प्रयोज्याः ॥ छ ॥ 'जइ पावंत द्रव करत' इति ! 'किएसि' इति योक्तिः सा क्रियातिपत्तेयस्तंन्यादिसाधारणा। 'जइ पावंत तव करत' इति च क्रियातिपत्तेविशेषोक्तिः । तत्र च यद्यप्राप्स्यत् तदा.अ[क]रिज्यत्' इति प्रयोगः । 'जइ देउ वृष्टि करत तव अन्न होते(त:) - यदि. देवो वृष्टिमकरि-। ष्यत् , तैदान्नमभविष्यत् । 'जइ इंधण पाएंत तव ओंदन पएंत' - एधांश्चेदलास्यदोदनमपक्ष्यत् । एवमन्येऽपि क्रियातिपत्तिप्रयोगाः कार्याः । 'करिह इति' इति । यत्र 'करिह' इत्युक्तिस्तत्र भविष्यत्कालः। तत्र च भविष्यन्ती-श्वस्तन्यौ आशीश्च । 'भविष्यति भविष्यन्त्याशीः श्वस्तन्यः' इत्यनेन आशीर्युक्तेन भविष्यति, आशिष एव पञ्चम्बा वा प्रयोगः । तद्यथा-'देवदत्त कट करिह' - [प० १३-२ ] देवदत्तः कटं करिष्यति, 2 कर्ता वा, क्रियाद् वा । एवं भोजन करिह, जेविह' – भोक्ष्यते, भोक्ता वा, भोक्षीष्ट वा । 'पाक करिह, पैह'-पक्ष्यति, पक्ता वा, पच्याद् वा । 'जाग करिह, यजिह'-यक्ष्यति, यष्टा वा, इज्याद् वा । 'त्याग करिह, तजिह'- त्यक्ष्यति, त्यक्ता वा, त्यज्याद् वा । एवमन्येऽपि भविष्यदुक्तौ प्रयोगाः कार्याः ॥ छ ॥ ..'आशिषि च पश्चमी स्यात्' इति । इष्टार्थस्य लाभे वाचिः (१) करणमाशीः, अङ्गीकारे; : समर्थनायाम, कर्तुमिच्छतोऽनुज्ञाऽनुमतिः, एतेषु पञ्चमी स्यात् । यथा - 'बहु देवस जीवउ देवदत्त' - बहून् दिवसानजीवत् देवदत्तः, जीव्याद् वा । 'धन पुत्र .सपुन होउ' -धनैः पुत्रैश्च संपूर्णो भवतु, भूयाद् वा । * । अङ्गीकारे यथा:-'हउं सहसौ जिणउं' - अहं सहस्रमपि जयानि । जि जये । 'हउँ पर्वत उ टालउं' - अहं पर्वतमपि टालयामि । टल टुल वैकल्ये । * । अनुमतौ यथा- 'सवहिं भूतं दया करु' – सर्वेषु भूतेषु दयां कुरु । । 'पराई वधु डीव छाड' - परकीये वस्तुनि त्रि( तृष्णां छिन्धि : 'कोवु छाडि क्षमा भजु' कोपं त्यक्त्वा क्षमां भज । इत्यादयः पञ्चमीप्रयोगविषया ज्ञेयाः ॥ छ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192