________________
कारिका १३.] . उक्तिव्यक्तिप्रकरणम् । कर, सुंघ:-सिंह(शिंघ)ति । आलिंगन कर, आलिंग'-आलिङ्गति । आखांदन कर, आस्वाद'-आखादयति । 'ग्रहण कर, ले'-गृह्णाति । 'त्याग कर, छाड'-त्यजति । एवमन्येऽपि वर्तमानोक्तौ प्रयोगी द्रष्टव्याः ॥ छ ।
• 'बस्तन्यवतमीवा' इति । वत्र तु 'किएसि' इत्युकिस्तत्रातीतः कालः । तत्र च शस्तनीअद्यतनी-परोक्षा-क्रियातिपत्तयश्चतस्रोऽपि प्रयोज्याः । 'सेनातीते' इत्यधिकारे :परोक्षा'; 5 'भूतकरणवत्यश्च' । इत्येताभ्यामित्यर्थः । तद्यथा-'पाक किएसि, पएसि' - अत्रार्थे - अपचत्, 'अपाक्षीत् , पपाच, अपक्ष्यत् - इत्येषामेकः प्रयोज्यः । 'भवन किएसि, भा' - अभवत् , अभूत् , बभूव, अभविष्यत् -इत्येषामेकः प्रयोज्यः । 'भोजन किएसि, जेंवेसि' [५० १३-१] अभुक्त, अभुक्त, बुभुजे, अभीक्ष्यत् – इत्येषामेकः प्रयोज्यः । 'किएसि'-अकरोत् , अकार्षीत् , चकार, अकरिष्यत् । 'दर्शन किएसि, दीवेसि' : अपश्यत् , अद्राक्षीत् , ददर्श । अद्रक्ष्यत् । 'नअन किएसि, निएसि'- अनयत् , अनैषीत् , निनाय, अनेष्यत् । एवमन्येऽप्यतीतोक्तिव्यापाराः प्रयोज्याः ॥ छ ॥
'जइ पावंत द्रव करत' इति ! 'किएसि' इति योक्तिः सा क्रियातिपत्तेयस्तंन्यादिसाधारणा। 'जइ पावंत तव करत' इति च क्रियातिपत्तेविशेषोक्तिः । तत्र च यद्यप्राप्स्यत् तदा.अ[क]रिज्यत्' इति प्रयोगः । 'जइ देउ वृष्टि करत तव अन्न होते(त:) - यदि. देवो वृष्टिमकरि-। ष्यत् , तैदान्नमभविष्यत् । 'जइ इंधण पाएंत तव ओंदन पएंत' - एधांश्चेदलास्यदोदनमपक्ष्यत् । एवमन्येऽपि क्रियातिपत्तिप्रयोगाः कार्याः ।
'करिह इति' इति । यत्र 'करिह' इत्युक्तिस्तत्र भविष्यत्कालः। तत्र च भविष्यन्ती-श्वस्तन्यौ आशीश्च । 'भविष्यति भविष्यन्त्याशीः श्वस्तन्यः' इत्यनेन आशीर्युक्तेन भविष्यति, आशिष एव पञ्चम्बा वा प्रयोगः । तद्यथा-'देवदत्त कट करिह' - [प० १३-२ ] देवदत्तः कटं करिष्यति, 2 कर्ता वा, क्रियाद् वा । एवं भोजन करिह, जेविह' – भोक्ष्यते, भोक्ता वा, भोक्षीष्ट वा । 'पाक करिह, पैह'-पक्ष्यति, पक्ता वा, पच्याद् वा । 'जाग करिह, यजिह'-यक्ष्यति, यष्टा वा, इज्याद् वा । 'त्याग करिह, तजिह'- त्यक्ष्यति, त्यक्ता वा, त्यज्याद् वा । एवमन्येऽपि भविष्यदुक्तौ प्रयोगाः कार्याः ॥ छ ॥ ..'आशिषि च पश्चमी स्यात्' इति । इष्टार्थस्य लाभे वाचिः (१) करणमाशीः, अङ्गीकारे; : समर्थनायाम, कर्तुमिच्छतोऽनुज्ञाऽनुमतिः, एतेषु पञ्चमी स्यात् । यथा - 'बहु देवस जीवउ देवदत्त' - बहून् दिवसानजीवत् देवदत्तः, जीव्याद् वा । 'धन पुत्र .सपुन होउ' -धनैः पुत्रैश्च संपूर्णो भवतु, भूयाद् वा । * । अङ्गीकारे यथा:-'हउं सहसौ जिणउं' - अहं सहस्रमपि जयानि । जि जये । 'हउँ पर्वत उ टालउं' - अहं पर्वतमपि टालयामि । टल टुल वैकल्ये । * । अनुमतौ यथा- 'सवहिं भूतं दया करु' – सर्वेषु भूतेषु दयां कुरु । । 'पराई वधु डीव छाड' - परकीये वस्तुनि त्रि( तृष्णां छिन्धि : 'कोवु छाडि क्षमा भजु' कोपं त्यक्त्वा क्षमां भज । इत्यादयः पञ्चमीप्रयोगविषया ज्ञेयाः ॥ छ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org