Book Title: Ukti Vyakti Prakarana
Author(s): Damodar Pandit
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
दामोदरविरचितं . [कारिका १७-१८. दर्शन कर, देउ देख' – देवस्य द्रष्टा वा दर्शको के। 'प्राम गमन कर, गाउं जा' - ग्रामस्थ गन्ता, जमको वा; याता वा । एवमन्येऽपि यथादर्शनं प्रयोज्याः ॥ छ ॥ . • 'निष्ठा-कन्सुप्रमुखा' इति । हस्तन्यादिवदित्यर्थः। तद्यथा-'भातु भोजनु किएसि, जेंवेसि' - भक्तं भुक्तः, भुक्तवान् वा, बुभुजानों वा; ओदने वा । स्त्री तु भुक्ता, “भुक्त5 वती। बुभुजाना' वा । 'शास्त्र किएसि' - शास्त्रं कृतः', कृतवान्, चकृवान् । [५० १६-२ ]
चक्राणो वा । स्त्री तु कृता', कृतवती, चक्रुषी, चक्राणां वा। 'कलाव ला(जा०)णेसि'कलापं वित्तः, विद्वान् वा; स्त्री तु वित्ता, विदुषी वा । कुलं तु वित्तं, विद्वद् वा । एवमन्येपि ॥ छ ।
‘शत्राणी(नौ) तु स्व-युतौ' इति । 'शत्राणी(नौ) स्य-संहितौ शेषे च' इत्यननेत्यर्थः । ७ तद्यथा- 'धर्म करणिहार आछ' - धर्म करिष्यन्नास्ते, स्त्री करिष्यन्ती, कुलं करिष्यत् । एवं 'पढणिहार आछ' -- पठिष्यन्नास्ते, पठिष्यन्ती वा, पठिष्यद् वा । एवं 'जणिहार दीस' - गमिष्यन् दृश्यते, गमिष्यन्ती वा, गमिष्यद् वा । 'जैवणिहार आछ' - जिम्विष्यन्नास्ते;
भोक्ष्यमाणो वा; स्त्री तु भोक्ष्यमाणा वा, कुलं भोक्ष्यमाणम् । एवमन्येऽपि । छ । । 'व्यापारोक्तेः' इति । वधेद् = वकारश्चेत् प्रयुक्तः, अपभ्रंशे दृश्यत इत्यर्थः । कृत्याः 15 'ते कृत्याः' इति कृत्यसंज्ञा ये तव्य-अनीय-क्यप्-ध्यण्-या इत्यर्थः । तद्यथा- 'वेद
पढव' - वेदः पठितव्यः, पठनीयः । 'स्मृति अभ्यसवि' - स्मृतिरभ्यस्तव्या, अभ्यसनीया । 'पुराण देखव' - पुराणं द्रष्टव्यम् , दर्शनीयम् , दृश्यं वा । 'धर्म करव' - धर्मः कर्तव्यः, करणीयः, कार्यः, कृत्यो वा । एवमन्येऽपि ॥ छ ।
ननु कर किएसि करिह इति करोतिनोक्तयो निबद्धाः । अतः [५० १७-१ अपरधातू20 क्तिषु तर्हि कः प्रयोगप्रकार इत्याशमाह -
इत्युक्तयो मयोक्ताः करोतिना सर्वधातुविषयत्वात् । . * तस्मादमुनैव पथा शेषार्था धातवश्चोह्याः ॥ १com ' करोतिर्हि सर्वधातुविषयः, अतः 'करोतिना' दर्शिता उक्तयः सर्वधातुभिरपि ज्ञेयाः । करोत्यर्थस्य सर्वव्यापकत्वात् । तथैव च प्रत्येकमुदाहरणेषु दर्शितमेव । 'तसाद्' इति । दिङ्मात्रमे23 वैतद्दर्शितम् । अनेनैव च मार्गेण ये अवशिष्टप्रत्ययानां धातूनां चार्थास्तेऽप्यूह्याः - स्वबुद्धयो
द्भाव्य प्रयोज्या इत्यर्थः । तद्यथा- 'करण चाह' - कर्तुमिच्छति चिकीर्षति । 'करण इच्छत, आछ' - कर्तुमिच्छन्नास्ते । 'धातोर्वा तुमन्तादिच्छतिनैककतकात्' इति सन् । 'सुइ हो(सु होउ:)' - सो भूयते । लुकि बोभूति । 'धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे ।'
1 शुभुजान वा । 2 क्रितः। 3 क्रिता। 4 भोष्यमाणा। 5 रभ्यस्ताब्या। • 6 यथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192