Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 220
________________ जैनदर्शनस्य आस्तिकता वा नास्तिकता 211 वृत्तिकारोः अपि 'अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः, नास्तीति मतिर्यस्य सः नास्तिक, इत्यवदन् ।' यास्काचार्या अपि स्वकीयनिरुक्तग्रन्थे, 'प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेसुः इत्यादिना परलोकसत्तायां श्रद्धारहितत्वमेव नास्तिकता इत्यब्रुवन् । कलिकोलमर्वज्ञहेमचन्द्राचार्या अप्यस्मिन्नेवार्थे नास्तिकशब्दं प्रयुजते इति मल्लिषेणाचार्याणां, " नास्तिकास्तिक देष्टिक' इति निपातनात् नास्तिकः, नास्ति परलोकः पुण्यं पापं वा मतिरस्य 10 इत्यादि वचनैः स्फुटं भवति । महाभारते नास्तिकतायाः लक्षणं परमरमणीयतया प्रतिपादितं व्यासमहर्षिभिः । 'मोह' एव नास्तिकतायाः परमकारणमिति सङ्गिरन्ते महाभारतकाराः। तैरुच्यते यत् - 'प्रज्ञा नाशात्मको मोहः तथा धर्मार्थनाशकः । तस्मानास्तिकता चैव दुराचारश्च जायते ॥11 अस्थायमाशयः यदतिमोहाभिभूताः नित्यानित्यवस्तुविवेकरहिता' कुपथे पदमर्पयन्तः धर्मरहस्यं आत्मतत्वदिकं चाविगणय्य स्वसुखोपभोगार्थ करहिंसादिकं दुराचारकचा चरन्ति तादृशा एव कुपथगामिनः नास्तिकपदव्यपदेशभाजो भवन्तीति । स्मृतिसाहित्यकाले आस्तिक-नास्तिक शब्दार्थो परिवर्तितो बभूव । समयेऽस्मिन् वेदप्रामाण्यमङ्गी कुर्वाणो आस्तिकः, नाङ्गीकुर्वाणो 'नास्तिकः' इति व्यपदिश्यते स्मेति, नास्तिको वेदनिन्दक:12 इति मनोः उक्तया स्पष्टं भवति | कालेऽस्मिन् आत्म पुनर्भवादि दार्शनिकविचारानवलम्च्य, 'आस्तिक-नास्तिकः' इत्यादि दार्शनिकदृष्टिः विलुप्ताऽभवत् । सांप्रदायिकदृष्टेः महत्त्वं दरीदृश्यते स्मृतिकाले । अतः दार्शनिकदृष्ट्या विचारस्यास्य तादृशं महत्त्वं नास्त्येव । तत्पश्चात् नैयायिकानां प्रभावाधिक्येन ईश्वरस्य जगकर्तृकत्वं मन्यानो ईश्वरवादी 'आस्तिकः निरीश्वरवादी 'नास्तिकः' इति व्यवहारः प्रचलितो बभूव । उदयनाचार्यः न्यायशास्त्रस्य धुरंधरैः 'कार्यायो जनवृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यान् संख्या विशेषाच्च साध्यो विश्वविदव्ययः'13 इत्यादि बहूनि प्रमाणा'न समुपस्थापितानि ईश्वरस्य जगत्कर्तृकत्वादि सिद्धये । तत्समयादारभ्य ईश्वरास्तित्वं निराकुर्वागः नास्तिकः' इति प्रथा प्रारब्धा इति अनुमातुं शक्यते । 7. कैय्यटाचार्याः पातजलपहाभाष्यस्य प्रदीपटीकायां एवं विलिखन्ति- 'अस्ति इत्यस्य इति परलोककर्तृका सत्ता विज्ञेया, तत्रैव विषये लोके प्रयोगदर्शनात् । तेन परलोकोऽस्तीति मतिर्यस्य सः आस्तिकः, तद्विपरीतो नास्तिकः ।।-4-4-60. 8. यास्कनिरुक्तम्-6-32. 9. हेमसूत्रम् -6-4-66. 10. स्याद्वादमंजरी-20. 11. महाभारत शांतिपर्व--123-16. 12. मनुस्मृति-II-2. 13. न्यासकुसुमान्जलि-v-1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302