Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 218
________________ 20 जैनदर्शनस्य आस्तिकता वा नास्तिकता सामान्येन भारतीयदर्शनानि 'आस्तिक दर्शनानि' 'नास्तिकदर्शनानीति' द्विधा विभक्तानि विद्यन्ते । तत्र न्याय-वैशेषिक-सांस्य-योग-पूर्वमीमांसा-वेदान्तदर्शनानि च आस्तिकानीति, चार्वाक-बौद्ध-जैनदर्शनानि नास्तिकानीति च व्यपदिश्यन्ते ।। चार्वाकबौद्धजैनाः ईश्वरस्य जगत्कर्तृकत्वं नानुमन्यन्ते नापि च वेदप्रामाण्यं उरीकुर्वन्तीति ते नास्तिकाः इति परिगण्यन्ते व्यावहारिकदृष्ट्या । परमिदं महद्दौर्भाग्यमिति वक्तव्यं भवति यत् जैनदर्शनप्रतिपादितमूलभूततत्त्वानि अविगणय्य चार्वाकबौद्धमताभ्यां सहैव जैनदर्शनमपि नास्तिकदर्शनमिति व्यवहियते । यदा वयं दार्शनिकदृष्टयाऽस्तिकनास्तिकशब्दार्थविषये विचारयामो निष्पक्षपातिना मनसा, कुर्मश्च तस्य ऐतिह्यावलोकनं सूक्ष्मेनिकया, तदेदं सुस्पष्टं संबोभवीति यत् जैनदर्शनं न कदापि नास्तिकपदव्यपदेशभाग भवति, इयं धारणा च सांप्रदायिकतायाः विद्वेषमूलका न तु दर्शनशास्त्रमूलका इति । जैनदर्शनस्य तलस्पर्शीज्ञानाभाव एव निदानमित्यत्र अनिवार्यतया वक्तव्यं भवति । दार्शनिकदृष्ट्या स एव नास्तिकपदव्यपदेशा) यः देहातिरिक्तस्य आत्मनः अस्तित्वं निराकुरुते, परलोक-पाप-पुण्यादिक न मनुते, कर्मसिद्धान्तं मोक्षावस्थां च नाङ्गीकरोति । अयमेवार्थः नास्तिकशब्दस्य, दर्शनशास्त्रसंमतः इति प्राचीनसर्वदर्शनेतिहासावलोकनेन ज्ञायते । व्यावहारिकदृष्ट्या यः शास्त्रोक्तान कुलाचारान् न प्रतिपालयति, ईश्वरे न विश्वसिति यथेच्छ वा व्यवहरति सः 'नास्तिकः' इति जनैः व्यपदिश्यते । व्यवहारे नास्तिकशब्दव्यपदेशः प्रायः अनाचार. बोधकत्वमूलकः इति निविवादम् । परं व्यावहारिकोऽयमर्थः दर्शनशास्त्रसंमतो न भवितुमर्हति । दर्शनशास्त्रेषु प्राधान्येन 'अहं' प्रतीतिविषयः आत्मा एव प्रतिपाद्यो विषय , तदनुषङ्गतोऽवशिष्टं सर्वमिति जानन्त्येव शास्त्रविदः । तस्मादयं नास्तिकदर्शनव्यपदेशोऽपि आत्मविचारविषयक एव भवितुमर्हति । नेकविधदर्शनकारैः ये आत्मविषयक विचाराः प्रदर्शिताः तानवलम्ब्यैव आस्तिकनास्तिकशब्दव्यपदेशः यक्तिसङ्गतं स्यादिति मन्यामहे वयम । दर्शनसिद्धान्तानां आविष्कर्तृणां दार्शनिकाना मतानुरोधेन ईश्वरजगत्कर्तृकत्वं वेदप्रामाण्यञ्चाङ्गीक्रियमाणाः एवास्तिकाः त्वन्ये नास्तिकाः इति कथन 1 (a) नास्तिकान् वेदबायां स्तान् बौद्वलोकायताहतान-सर्वसिद्धान्तसंग्रह-v. 1. (b) एते चार्वाकास्तथा चतुर्विधा बौद्धाः अहंताश्चेति षण्णास्तिका इत्य ख्यायन्ते । -सर्वदर्शनसंग्रह, उपोधात. पृष्ठ 99. T-27 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302