Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 245
________________ 236 Traverses on less trodden path... तथा सर्वस्यानेकान्तात्मकत्वेऽङ्गोक्रियमाणे जलादेशयनलादिरूपता, अनलादेरपि जलरूपता, ततश्च जलार्थी प्रवर्तेतानलादावपि, अनलार्थी च जलादावपीति, प्रतिनियतव्यवहारलोपः भवेत । अतोऽनेकान्तवादस्वीकरणं व्यवहारविरुद्धम् । रामानुजाचार्याः आक्षेरमुद्भावयन्ति यत् सर्वस्यास्य मूलभूतः सप्तभङ्गीनयः स्वयमेकान्तोऽनेकान्तो वा । एकान्तश्चत् सर्वमनेकान्त मत्यस्य वादस्यैव हानिः । द्वितीयेऽनेकान्तत्वेनासाधकत्वात् त्रिविक्षितार्थाऽसिद्धिः । तथा चेयमुभयतः पाशारज्जुः स्याद्वादिनः स्यात् इति ॥ 88 जैनानामयमभिप्राय यत् प्रतिपक्षिभिरनेकान्तवादस्य रहस्यमेव न ज्ञातम् इति । अनेकान्तवादस्य सम्यग्ज्ञानाभाव एव तैः प्रदर्शितविरोधादिदोषः सुस्पष्टो भवति । सूक्ष्मे किया विचार्यमाणे विरोधादिदोषाः न दृश्यन्तेऽनेकान्तवादे । यदि वस्तुनः येन प्रकारेण सत्त्वं तेनैवासत्त्वं, येनैव चासत्त्वं तेनैव सत्त्वमित्युच्यते तदा विरोधः संभवेत् । परं वस्तु स्वरूपेणास्ति, पररूपेण नास्तीति प्रतिपादनेन नास्त्यवकोशः विरोधस्य । अत एवोच्यते 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसंभवः 04 इति । स्वरूपक्षेत्रकालभावै सत्त्वं पररूपक्षेत्र कालभावैस्त्वसस्त्रमिति वस्तुनः मन्तव्यम् । दधिदृष्टान्तेन विचारसरणिश्यिं स्पष्टा भवेत् । दधि स्वरूपापेक्षया भवति । यदि दधि तदुभिन्नोष्ट्रापेक्षया दधि भवति चेत् 'दधि भक्षय' इति कथनेन दधिग्रहणवद् उष्ट्रमपि ग्रहीतुं गच्छेत् दधिभक्षणेच्छुकः । परमेतादृशः क्रमो व्यवहारे न दृश्यते । तदुक्तं - 'चोदितो दधि खादति किमुष्ट्रमभिधावति १०० इति । एवं सर्वपदार्थानां स्वरूपेण सत्त्वं पररूपेणासत्त्वञ्च विधीयते । जीवस्य तावत् सामान्योपयोगः स्वरूपं तस्य तल्लक्षणत्वात् । ततोऽन्योऽनुपयोगः पररूपम् । ताभ्यां सदसत्त्वे प्रतीयेते एकस्मिन्नेव जीवे । 5 6 एवमेकस्यैव वस्तुनः युगपदुभयरूपता सदसदात्मिका घटते यथैकस्य पुरुषस्यापेक्षावशात् लघुत्व - गुरुत्व - बालत्व - वृद्धत्व - युवत्व - पुत्रस्त्र - पितृत्वादीनि परस्परविरुद्धान्यपि तथा सत्त्वासत्रादीन्यपि । भावानां सर्वथा विरोधो न घटते । तदुक्तं - 'अस्तित्वनास्तित्वयोरवच्छेदकभेदे नायमाणयोर्विरोधाभावात् । अथैकस्यैव देवदत्तस्यैकापेक्षया पितृत्त्रमन्यापेक्षया पुत्रत्वञ्च परस्परमविरुद्वम्' इति । 8 अपि चैकस्मिन्नेव वस्तुनि कथञ्चित् सत्यासत्ये स्थाताम्, यथैकत्र वृक्षादौ चलाचलात्मनोः वटादौ रक्तारक्तात्मनोः शरीरादात्रावृत्तानावृत्तात्मनोश्चोपलंभो भवति, तथा चैकत्र धूपपटादौ चावच्छेदकभेदेन शीतोऽगस्पर्शयो रुपालंभः भवत्यविरोधेन । एवं सत्त्वासत्त्वेऽप्येकस्मिन् वस्तुन्यविशेघेन सम्भवतः । 63. श्रीमान्य - II - 2 - 23: षड्दर्शनसंग्रह - पृ. 183. 64. तत्रार्थ राजवार्तिक - 2. 24. 65. स्याद्वादमञ्जरी - 130. 66. न्यायविनिश्चय - पृ. 374. 67. उपयोगो लक्षणम् - तस्वार्थ सूत्र - II-8, 68. तस्वार्थ राजवा र्तिक - पृ. 36. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302