Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 248
________________ 22 नैषधं विद्वदौषधम् " वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् ।" -नैषधीयचरितम्-VIII-३२. विदितमेवैतत्समेषामपि संस्कृतसाहित्यरसिकाणां यत्सारस्वतजलधिमन्थनेन परि स्रवरसुधावाहिनां गभीरार्थप्रतिपादकानां महाकाव्यानां निर्मातणां कवीनां सारस्वतस्रष्टौ नूनमयं नेषधकाव्यप्रणेता सर्वतन्त्रस्वतन्त्रो महाकविः श्रीहर्षः मुकुटमणीयेतति । न खल्वेतन्न विदितं विदुषां यत् दुरुन्नेय एव प्रायेण प्राचीनसंस्कृतकवीनां स्थितिसमयः । जानीमो वयं यदेते महाकवयः आत्मनो गुणनिचयमबहुमन्यमाना. इव नैवोल्लिखन्ति प्रायेणात्मनो प्रबन्धरत्नेषु तन्निर्माणावसरं विशेषतश्च काव्येषु । अतः तदाश्चर्यमाव. हति यदि प्राचीनपरम्परानुयायो श्रीहर्षोऽपि स्वीयकाव्ये नालेखीदात्मनोऽवस्थितिसमय- . मिति । एतस्य कालनिर्णयादिविषये विद्वांसो विप्रतिपद्यन्ते तथापि 'ताम्बूलद्वयमासनकच लभते यः कान्यकुब्जेश्वरात् इति श्री हर्णस्यैवोक्त्या क्रिस्ताब्दस्य द्वादशशतकस्योत्तरार्धे विजयचन्द्र-जयचन्द्रयोः समये भारतभुवमलचकारेति बहुभिरैतिह्यविद्भिरङ्गी क्रियते । श्रीहीरनाम्नः पण्डितोत्तमात् मामल्लदेव्यामुत्पन्नोऽयमिति कविनैव प्रतिसर्गमुपनिबध्यमानादन्तिमश्लोकादवधार्यते । अनेनैव कविना नैषधीयकाव्यं विहाय स्थैर्यविचारणप्रकरणं, खण्डनखण्डखाद्यं', अर्णववर्णन, शिवशक्तिसिद्धि , नवसाह. साकचम्पू गौडोर्वीशकुलप्रशस्तिः, श्रीविजयप्रशस्तिः, छन्दप्रशस्तिः10, ईश्वराभिः सन्धिः11 इत्येतानि ग्रन्थान्तराणि प्रणीतानीति तत्र तत्र नैषधीयसर्गान्तर्गतश्लो 1. नैषधचरितम् (ने.)-XXI-153. 2. 'श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् ' । 3. स्थैर्यविचारणप्रकरणभ्रातरि महाकाव्ये-नै. IV-123. 4. खण्डनखण्डतोऽपि सहजात् क्षोदक्षमे महाकाव्ये-ने. VI-113. 5. सन्दब्धार्णववर्णनस्य तस्य-ने. IX-160. 6. शिवशक्तिसिद्धिभगिनी सौक्षात्रभव्ये -ने. XVIII-154. 7. नवसाहसाचरिते चम्पूकृत:--. XXII-151. 8. गोडोवीशकुल प्रशस्तिभणितिभ्रातरि-ने. VII-110. 9 तस्य श्रीविजयप्रशस्तिरचनातातस्य-. V-138. 10. स्वसुः सुसहशि छन्दप्रशस्तेः -ने. XVII-122. 11. द्रष्टव्यं खण्डनखण्डखाद्यम् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302