Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 246
________________ अनेकान्तवादरूप स्वरूपम् वस्तुन स्वरूपमस्तित्वमेव भवति, न तु पररूपाश्रितं नास्तित्वं यदि पररूपाश्रितमपि नास्तित्व वस्तुनः स्वरूपं स्यात्तदा पटगतरूपादिकमपि घटस्य स्वरूपं स्यादित्याशङ्का समुत्पद्येतात्र । परमियं शङ्का निरास्पदा । यतो ह्योभयस्यापि स्वरूपत्वे प्रमाणमुपलभ्यते यथा घटस्य स्वरूपाद्यवच्छिन्नास्तित्वं पररूपाद्यवच्छिन्नं नास्तित्वञ्च प्रत्यक्षेणैव गृह्यते । घटो घटत्वेनास्ति, पटत्वेत नास्तीत्यबाधितप्रतीतिर्भवति । अतः वस्तुनः स्वरूपादिमिरस्तिलं पररूपादिभिर्नास्तित्वमित्युच्यते । अनेकान्तवादो संशयवादः इति कथनमप्ययुक्तम् । अहढप्रतीतौ हि संशयः स्यात् यथा क्वचित्प्रदेशे स्थाणुपुरुषयोः १० स्थाणुर्वा पुरुषो वेति । परमेकस्मिन्नेव वस्तुनि सत्त्वासत्त्वयोः स्फुटरूपेणैव प्रतीतिर्भवतीति संशयस्यास्पदं एव नास्ति । 70 237 अनवस्थादोषोऽपि न भवत्यनेकान्तवादे । यतः सत्त्वासत्त्वादयो वस्तुनः एव धर्माः, न तु धर्माणां धर्माः । न चात्र सङ्कव्यतिकरौ सम्भवतः । यथा मेचकज्ञानमेकमण्यनेकस्वभावं न च तत्र सङ्कव्यतिकरौ एवमत्रापि । तदुक्तं - 'एकत्र बहुभेदानां संभवात् मेचकादिवत् । "" किञ्च यथा अनामिकाया युगपत् मध्यमाकनिष्ठकसंयोगे हृस्वदीर्घत्वे न च तत्र सङ्करादि दोषः एत्रमत्रापि । अनेकान्तवादस्वीकारे 'जला देरप्यनत्यादिरूपता' इत्यादि यदुच्यते तदप्यसमञ्जसमेत्र । यतः जलादेः स्वरूपापेक्षया जलादिरूपता न पररूपापेक्षया अतः जलार्थिनोऽनादौ प्रवृत्तिर्न भवति । " " सर्वस्य सर्वात्मकत्वाभ्युपगमस्तु स्वपरपर्यायात्मकत्वेन कृतोऽस्ति । अनेकान्ताभ्युपगमादनेकान्तहानिर्न भवति । सम्यगेकान्तस्यानेकान्तेन विशेधो नास्ति । नयार्पणदृष्ट्या एकान्तः प्रमाणार्पणदृष्टया अनेकान्तोऽङ्गीक्रियते । तदुक्तं विद्यानन्दिभिः यत्-नयार्पणादेकान्तस्य प्रमाणार्पणादनेकान्तस्यैवोपदेशात् । तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः । 13 जीवादौ भेदाभेदः भवितुं नार्हतीति कथनमयुक्तम् । जीवद्रव्यस्य सर्वथा अभेदे एकान्तरूपत्वे पुण्योदय वैफल्यप्रसङ्गः । नित्यस्य भेदरहितस्यात्मनो न बन्धः, नापिच मोक्षः स्यात् । तदुक्तं समन्तभद्राचार्यै:- भावेषु नित्येषु विकार हानेर्न कारक व्यापृतकार्य युक्तिः । नबन्धभोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् इति । सर्वथा भेदे अनित्ये वात्मनि पुण्यवानन्यः फलवानन्यः इति पुण्य संपादन वैय्यर्थ्यप्रसङ्गः । प्रत्यभिज्ञाद्यसंभवो भवति च । तदुक्तं - क्षणिकान्तपक्षेsपि प्रेत्यभावाद्य संभवः । प्रत्यभिज्ञाद्यभावान्न 74 69. सप्तभङ्गीतरङ्गिणी - पृ 52-53. 70. षड्दर्शनसमुच्चयटीका - पृ. 361 71. न्यायविनिश्चय--- p. 45. 72. षड्दर्शनसमुच्चयटीका - 557-8, 73. अष्टसहस्त्री, पृ. 207. 74. युक्तयनुशासन - ४ आन्तमीमांसा 25, 26, 27. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302