________________
अनेकान्तवादरूप स्वरूपम्
वस्तुन स्वरूपमस्तित्वमेव भवति, न तु पररूपाश्रितं नास्तित्वं यदि पररूपाश्रितमपि नास्तित्व वस्तुनः स्वरूपं स्यात्तदा पटगतरूपादिकमपि घटस्य स्वरूपं स्यादित्याशङ्का समुत्पद्येतात्र । परमियं शङ्का निरास्पदा । यतो ह्योभयस्यापि स्वरूपत्वे प्रमाणमुपलभ्यते यथा घटस्य स्वरूपाद्यवच्छिन्नास्तित्वं पररूपाद्यवच्छिन्नं नास्तित्वञ्च प्रत्यक्षेणैव गृह्यते । घटो घटत्वेनास्ति, पटत्वेत नास्तीत्यबाधितप्रतीतिर्भवति । अतः वस्तुनः स्वरूपादिमिरस्तिलं पररूपादिभिर्नास्तित्वमित्युच्यते ।
अनेकान्तवादो संशयवादः इति कथनमप्ययुक्तम् । अहढप्रतीतौ हि संशयः स्यात् यथा क्वचित्प्रदेशे स्थाणुपुरुषयोः १० स्थाणुर्वा पुरुषो वेति । परमेकस्मिन्नेव वस्तुनि सत्त्वासत्त्वयोः स्फुटरूपेणैव प्रतीतिर्भवतीति संशयस्यास्पदं एव नास्ति ।
70
237
अनवस्थादोषोऽपि न भवत्यनेकान्तवादे । यतः सत्त्वासत्त्वादयो वस्तुनः एव धर्माः, न तु धर्माणां धर्माः । न चात्र सङ्कव्यतिकरौ सम्भवतः । यथा मेचकज्ञानमेकमण्यनेकस्वभावं न च तत्र सङ्कव्यतिकरौ एवमत्रापि । तदुक्तं - 'एकत्र बहुभेदानां संभवात् मेचकादिवत् । "" किञ्च यथा अनामिकाया युगपत् मध्यमाकनिष्ठकसंयोगे हृस्वदीर्घत्वे न च तत्र सङ्करादि दोषः एत्रमत्रापि । अनेकान्तवादस्वीकारे 'जला देरप्यनत्यादिरूपता' इत्यादि यदुच्यते तदप्यसमञ्जसमेत्र । यतः जलादेः स्वरूपापेक्षया जलादिरूपता न पररूपापेक्षया अतः जलार्थिनोऽनादौ प्रवृत्तिर्न भवति । " " सर्वस्य सर्वात्मकत्वाभ्युपगमस्तु स्वपरपर्यायात्मकत्वेन कृतोऽस्ति । अनेकान्ताभ्युपगमादनेकान्तहानिर्न भवति । सम्यगेकान्तस्यानेकान्तेन विशेधो नास्ति । नयार्पणदृष्ट्या एकान्तः प्रमाणार्पणदृष्टया अनेकान्तोऽङ्गीक्रियते । तदुक्तं विद्यानन्दिभिः यत्-नयार्पणादेकान्तस्य प्रमाणार्पणादनेकान्तस्यैवोपदेशात् । तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः । 13
जीवादौ भेदाभेदः भवितुं नार्हतीति कथनमयुक्तम् । जीवद्रव्यस्य सर्वथा अभेदे एकान्तरूपत्वे पुण्योदय वैफल्यप्रसङ्गः । नित्यस्य भेदरहितस्यात्मनो न बन्धः, नापिच मोक्षः स्यात् । तदुक्तं समन्तभद्राचार्यै:- भावेषु नित्येषु विकार हानेर्न कारक व्यापृतकार्य युक्तिः । नबन्धभोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् इति । सर्वथा भेदे अनित्ये वात्मनि पुण्यवानन्यः फलवानन्यः इति पुण्य संपादन वैय्यर्थ्यप्रसङ्गः । प्रत्यभिज्ञाद्यसंभवो भवति च । तदुक्तं - क्षणिकान्तपक्षेsपि प्रेत्यभावाद्य संभवः । प्रत्यभिज्ञाद्यभावान्न
74
69. सप्तभङ्गीतरङ्गिणी - पृ 52-53.
70. षड्दर्शनसमुच्चयटीका - पृ. 361
71. न्यायविनिश्चय--- p. 45.
72. षड्दर्शनसमुच्चयटीका - 557-8,
73. अष्टसहस्त्री, पृ. 207.
74. युक्तयनुशासन - ४ आन्तमीमांसा 25, 26, 27.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org