________________
238
Traverses on less trodden path... कार्यारम्भः कुत. फलं' इति । सर्वथा भेदे आत्मनि सीक्रियमाणे मातृघाती मातृघाती न भवेत् , स्वपतिः स्वपतिनभवेत् द्वितीयक्षणे, स्वजाया स्वभार्या न भवेत् ।
___ अतः एतदोषनिवारणाय जीवस्योभयात्मकता भेदाभेदात्मकता नित्यानित्यात्मकता च स्वीकर्तव्या । जीवे यत्प्रत्यभिज्ञानं तदाकस्मिकं न भवति । नित्यात्मनोऽनङ्गीकारे प्रत्यभिज्ञाभावात् व्यवहारो लुप्येत । अतः आत्मनः नित्यत्वमभेदत्वं वा स्वीकर्तव्यम् । एवमेव कालभेदात् पर्यायभेदाच्चानित्यत्वं भेदत्वं वोररीकर्तव्यम् । यथा जोवस्य जीवद्रव्यरूपेणोभेदः मनुष्यपर्यायदेवपर्यायरूपेण भेदः इ त भेदाभेदो स्वीकर्तव्यो एकस्मिन्नेव जीवे । एवमनेकान्तवादे नित्यानित्यकान्तवादिना समन्वयो भवति ।
__ अनेकान्तवादस्य न केनापि सह विरोधो दृश्यते । यद्यपि जैनेतरसकलदर्शनानि निजमतभेदेन परस्परं विरोधं भजन्ते तथापि तेषामभीष्टानां वस्त्वंशानां मिथः सापेक्षतया कथनात् तेऽपि समीचीनतामचन्तीत्यनेकान्तवादिनामुद्घोषः । गुणरत्नसूरिभि ' यशोविजयश्च भिन्नभिन्नार्थान् ' नयभेदव्यपेक्षया ब्रुवाणाः सांख्यन्यायवैशेषिक - मीमांसकादयो स्याद्वादमने कान्तवाद वा न प्रति क्षपेयुरिति वदद्भिः सर्वदर्शनसमन्वयात्मको स्याद्वादः इति प्रत्यपादि । इति शम् । 75 आप्तमीमांसा-41. 76. प्रतिक्षणं भनि तत्पृथक्त्वात् न मातृघाती स्वपतिः स्वजाया । दत्तग्रहो नागितः स्मृतिर्न न क्वार्थसत्यं न कुलं न जातिः ॥
-युक्त्य नुश सन, पृ. 16 77. नित्यं तत्प्रत्यभिज्ञानात् नाकस्मातदविच्छिदा ।
क्षणिकं कालभेदाने बुध्यस चरदोषतः ||-आप्तमीमांसा-56. 78. षड्दर्शनसमुच्चयटीका, पृ. 96-98 79 इच्छन् प्रधानं सत्त्वाचे विरूद्वेगुम्फितंगुणः ।
सांख्यः संख्यावतां मुख्यो नाने का प्रतिक्षिपेत् ।। चित्रमेकमनेकञ्च रूपं प्रामाणिकं वदन् । योगौ वैशेषिको वाऽपि नानेकान्त प्रतिक्षिपेत् ।। जातिव्यक्त्यात्मक वस्तु वदन्ननुभवोचितम् । भट्टो वापि मुरारिवा नानेकान्त प्रतिक्षिपेत् ॥ अबद्ध परमार्थेन बद्धं च व्यवहारतः । बुवाणो ब्रह्म वेदान्ती नानेकान्तं प्रतिक्षिपेत् ।। ब्रुवा भिन्नभिन्नार्थान्नयभेदव्यपेक्षया । प्रतिक्षिपेयुनों वेदा: स्याद्वादं सार्वतांत्रिकम् ।।
-अध्यात्मोपनिषत्प्रकरण 45-50.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org