________________
22 नैषधं विद्वदौषधम्
" वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् ।"
-नैषधीयचरितम्-VIII-३२. विदितमेवैतत्समेषामपि संस्कृतसाहित्यरसिकाणां यत्सारस्वतजलधिमन्थनेन परि स्रवरसुधावाहिनां गभीरार्थप्रतिपादकानां महाकाव्यानां निर्मातणां कवीनां सारस्वतस्रष्टौ नूनमयं नेषधकाव्यप्रणेता सर्वतन्त्रस्वतन्त्रो महाकविः श्रीहर्षः मुकुटमणीयेतति । न खल्वेतन्न विदितं विदुषां यत् दुरुन्नेय एव प्रायेण प्राचीनसंस्कृतकवीनां स्थितिसमयः । जानीमो वयं यदेते महाकवयः आत्मनो गुणनिचयमबहुमन्यमाना. इव नैवोल्लिखन्ति प्रायेणात्मनो प्रबन्धरत्नेषु तन्निर्माणावसरं विशेषतश्च काव्येषु । अतः तदाश्चर्यमाव. हति यदि प्राचीनपरम्परानुयायो श्रीहर्षोऽपि स्वीयकाव्ये नालेखीदात्मनोऽवस्थितिसमय- . मिति । एतस्य कालनिर्णयादिविषये विद्वांसो विप्रतिपद्यन्ते तथापि 'ताम्बूलद्वयमासनकच लभते यः कान्यकुब्जेश्वरात् इति श्री हर्णस्यैवोक्त्या क्रिस्ताब्दस्य द्वादशशतकस्योत्तरार्धे विजयचन्द्र-जयचन्द्रयोः समये भारतभुवमलचकारेति बहुभिरैतिह्यविद्भिरङ्गी क्रियते । श्रीहीरनाम्नः पण्डितोत्तमात् मामल्लदेव्यामुत्पन्नोऽयमिति कविनैव प्रतिसर्गमुपनिबध्यमानादन्तिमश्लोकादवधार्यते । अनेनैव कविना नैषधीयकाव्यं विहाय स्थैर्यविचारणप्रकरणं, खण्डनखण्डखाद्यं', अर्णववर्णन, शिवशक्तिसिद्धि , नवसाह. साकचम्पू गौडोर्वीशकुलप्रशस्तिः, श्रीविजयप्रशस्तिः, छन्दप्रशस्तिः10, ईश्वराभिः सन्धिः11 इत्येतानि ग्रन्थान्तराणि प्रणीतानीति तत्र तत्र नैषधीयसर्गान्तर्गतश्लो
1. नैषधचरितम् (ने.)-XXI-153. 2. 'श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् ' । 3. स्थैर्यविचारणप्रकरणभ्रातरि महाकाव्ये-नै. IV-123. 4. खण्डनखण्डतोऽपि सहजात् क्षोदक्षमे महाकाव्ये-ने. VI-113. 5. सन्दब्धार्णववर्णनस्य तस्य-ने. IX-160. 6. शिवशक्तिसिद्धिभगिनी सौक्षात्रभव्ये -ने. XVIII-154. 7. नवसाहसाचरिते चम्पूकृत:--. XXII-151. 8. गोडोवीशकुल प्रशस्तिभणितिभ्रातरि-ने. VII-110. 9 तस्य श्रीविजयप्रशस्तिरचनातातस्य-. V-138. 10. स्वसुः सुसहशि छन्दप्रशस्तेः -ने. XVII-122. 11. द्रष्टव्यं खण्डनखण्डखाद्यम् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org